सामग्री पर जाएँ
सर्वकोश
उपवनविनोद (आचार्य शार्ङ्गधर - वृक्षायुर्वेद, भू-जल संधान एवं उद्यान-विज्ञान सटीक)

उपवनविनोद (आचार्य शार्ङ्गधर - वृक्षायुर्वेद, भू-जल संधान एवं उद्यान-विज्ञान सटीक)

Upavanavinoda of Sharngadhara with Commentary

आचार्य शार्ङ्गधर (सम्पादक: पं. गिरिजाप्रसाद) द्वारा

DevanagariHindipublished134 पृष्ठ

पृष्ठ 45, कुल 134 में से

संदर्भ में पढ़ें
पृष्ठ 45

अथ वृक्षायुर्वेदः ॥८२॥
उपवन-विनोदः ॥
पुंसां सर्वसुखैकसाधनफलाः सौन्दर्य्यगर्वाङ्कुर—
क्रीडालोलविलासिनीजनमनः स्फीतप्रमोदावहाः ।
गुञ्जद्भृङ्गविनिद्रपङ्कजभरस्फारोल्लसद्दीर्घिका—
युक्ताः सन्ति गृहेषु यस्य विपुलारामाः स पृथ्वीपतिः ॥१
नवं वयो हारि^a वपुर्वराङ्गनाः
सखा कलावित्कलवल्लकीस्वनः ।
धनं हि^b सर्वं विफलं सुखैषिणो
विना विहारोपवनानि भूपतेः ॥२
शास्त्राणि तावदवलोक्य मया मुनीना—
मर्थः स एव गदितः परमार्थयुक्त्या^c ।
एनं^d विलोक्य निखिलं च विचारयन्तः
सन्तः स्वभावसरला मुदमाप्नुवन्तु ॥३
अथ तरुमहिमा ।^1
बहुभिर्वत किं जातैः पुत्रैर्धर्मार्थवर्जितैः ।
वरमेकः पथि तरुर्यत्र विश्रमते जनः^e ॥४
दशकूपसमा वापी दशवापीसमो ह्रदः ।
दशह्रदसमः पुत्रो दशपुत्रसमो द्रुमः ॥५

(a) गणनाथ—नवं मनोहारि
(b) ,, धनानि
(c) ,, परमार्थयुक्ता ।
(d) ,, एवं
(e) ,, विश्राम्यते जनैः ।
1 Cf. Matsya P. 154, 511—512.
Padma P. 26, Vṛkṣaropanam.
Agni P. Chap. on Tarāgavṛkṣapraśaṁsā.