विवाह वृन्दावनम् (पं. सीताराम झा ज्योतिष टीका - विवाह संस्कार, अष्टकूट गुण-मिलान एवं मुहूर्त विज्ञान सटीक)
Vivaha Vrindavanam: Vivaha Sanskara, Ashtakuta Guna Milana evam Muhurta Vigyan
केशवार्कमहोदय (टीकाकार: पं. सीताराम झा) द्वारा
पृष्ठ 7, कुल 138 में से
संदर्भ में पढ़ें॥ श्रीः ॥
समर्पण-
आसील्लोके येन तुल्यो न चान्यः
काश्यां योऽभूत् सर्वमान्यो वदान्यः ।
विद्वद्वर्यो मण्डलीशो यतात्मा
श्रीगोविन्दानन्द-संज्ञो महात्मा ॥ १ ॥
यस्माद् भीता नास्तिका यान्ति दूरं
दृष्ट्वा यद्वन्नागवर्गा मयूरम् ।
साक्षाद् ब्रह्मैवास्तिका यं वन्दन्ति
सर्वे विद्वांसः सदैवानमन्ति ॥ २ ॥
वाराणस्यां येन चैका विशाला
वेदाङ्गानां स्थापिता पाठशाला ।
अन्यत्रान्याश्चापि शाखास्तदीया
जागर्त्यद्याप्यत्र कीर्तिर्यदीया ॥ ३ ॥
कुर्वन् कल्याणानि नित्यं जनानां
संसारेऽस्मिन् यः शतं हायनानाम् ।
जीवन् मुक्तो मोहमात्सर्यहीनः
काश्यामन्ते योऽभवद् ब्रह्मलीनः ॥ ४ ॥
तल्लब्धबोधस्तच्छिष्य-स्तच्छीलगुणसंयुतः ।
जितेन्द्रियः प्रशान्तात्मा ब्रह्मविज्जनैर्नुतः ॥ १ ॥
श्री 'जयेन्द्रपुरी'नाम सतां संन्यासकर्मणाम् ।
मण्डलेशत्वमासाद्य काश्यां विजयते तराम् ॥ २ ॥
यस्योक्तपाठशालायां नित्यं पाठयता मया ।
केशवार्ककृतौ व्याख्या कृता भाषार्थसंयुता ॥ ३ ॥
नाम्ना 'वसन्तलक्ष्मीः' सा भक्त्या तस्मै समर्प्यते ।
नतेन मिथिलावासि-श्रीसीतारामशर्मणा ॥ ४ ॥