विवाह वृन्दावनम् (पं. सीताराम झा ज्योतिष टीका - विवाह संस्कार, अष्टकूट गुण-मिलान एवं मुहूर्त विज्ञान सटीक)
Vivaha Vrindavanam: Vivaha Sanskara, Ashtakuta Guna Milana evam Muhurta Vigyan
केशवार्कमहोदय (टीकाकार: पं. सीताराम झा) द्वारा
पृष्ठ 128, कुल 138 में से
संदर्भ में पढ़ेंप्रकरणम् १७ ] वसन्तलक्ष्मीसहितम् । ११५
एकार्गलः साभिजितीन्दुतोर्कः समेस्ति योगेष्वशुभाह्वयेषु ।
चतुर्दशं चेन्दुभमर्कधिष्ण्यादितीयमुक्तोद्वहनर्क्षशुद्धिः ॥ ४ ॥
सं०—अशुभाह्वयेषु ( वैधृत्यादिषु ) योगेषु इन्दुतःश्चन्द्रनक्षत्रात् अर्कः
सूर्यः साभिजिति समे समसंख्यनक्षत्रेऽस्ति चेत् तदा एकार्गलः स्यात् ।
तथाऽर्कधिष्ण्यात् चतुर्दशे इन्दुभं चन्द्रनक्षत्रं चाशुभं स्यात् । इत्येवं प्रकारे-
णोयं उद्वहनर्क्षशुद्धिः विवाहनक्षत्रशुद्धिः उक्ता ॥ ४ ॥
भा०—वैधृति व्यतीपात आदि अशुभ योगों में चन्द्रनक्षत्र से अभिजित्
सहित सम संख्यक नक्षत्र में सूर्य हो तो एकार्गल दोष होता है । और सूर्य के
नक्षत्र से १४ वाँ चन्द्रमा का नक्षत्र भी हो तो अशुभ है । इस प्रकार यह
विवाहनक्षत्र शुद्धि कही गई है ॥ ४ ॥
अथ लग्नशुद्धिं कथयति—
षट्त्र्यायेष्वशुभाः शुभाय निधनद्यूनान्त्यवर्ज्यं परे
त्र्यायार्थेषु शशी मृतौ शनितमःसूर्याः परे भङ्गदाः ।
क्रूरद्यूनवृतान्विते शशितनू अस्ते सितज्ञौ विधु-
र्लग्ने सोमसिताधिपा द्विषि सितः सेन्दुर्विनष्टोंशपः ॥५॥
सं०—श्लोकोऽयं प्रहयोगबलाब्लाध्याये व्याख्यात एव । केवलमत्रा-
ष्टमस्थाने तमो राहुरपि शुभाय प्रोक्तः ॥ ५ ॥
भा०—इसी ग्रन्थ के प्रकरण १३ श्लोक १ पहला देखो । यहाँ अष्टम स्थान
में तम ( राहु ) भी शुभ कहा गया है इतना ही विशेष है ॥ ५ ॥
अंशाः षट्त्रिनवाद्रयस्तदधिपे लग्नांशयोर्द्वादश-
द्वित्र्यष्टासु न लग्नस्तलवपे तत्सप्तमाभ्यां तथा ।
गण्डान्तेषु च वैधृतावुभयतः संक्रान्तियामद्वये
यामार्धव्यतिपातविष्टिकुलिके मासेद्धि चोनाधिके ॥६॥
सं०—षट्त्रिनवाद्रयः कन्यामिथुनधनुस्तुलाः अंशाः लग्ननवांशाः
शुभा भवन्ति । तदधिपे (नवांशस्वामिनि) लग्नांशयोः (लग्नात् नवांशाद्वा)
द्वादशद्वित्र्यष्टासु स्थिते लग्नं न कार्यम् । अस्तलवपे सप्तमभावांशाधिपे
तत्सप्तमाभ्यां ( लग्नसप्तमात्-अंशसप्तमाद्वा ) तथा तद्वत् द्वादशद्वित्र्यष्टासु
स्थिते सति लग्नं न कार्यम् । गण्डान्तेषु, वैधृतौ, उभयतः संक्रान्तियामद्वये,