तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 195, कुल 199 में से
संदर्भ में पढ़ें१७८ तर्कसंग्रहः [ अवशिष्टपरिच्छेदः
धर्मस्य अधर्मस्य च किं लक्षणम् ?—
विहितकर्मजन्यो धर्मः । निषिद्धकर्मजन्यस्त्वधर्मः ।
आत्ममात्रविशेषगुणाः के ?—
बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः । बुद्धिच्छाप्रयत्ना नित्या
अनित्याश्च । नित्या ईश्वरस्य, अनित्या जीवस्य ।
संस्कारः कतिविधः, तद्भेदाश्च किंस्वरूपाः ?—
संस्कारस्त्रिविधः—वेगो भावना स्थितिस्थापकश्चेति । वेगः
पृथिव्यादिचतुष्टयमनोवृत्तिः । अनुभवजन्या स्मृतिहेतुर्भावना,
पदकृत्यम्
यागादिः । द्वेषं निरूपयति-क्रोध इति । द्वेष्टीत्यनुभवसिद्धद्वेषत्वजातिमान्
द्विष्टसाधनताज्ञानजन्यगुणो वा द्वेषः । प्रयत्नम् निरूपयति-कृतिरिति ।
प्रयत्नत्वजातिमान् प्रयत्नः । स त्रिविधः-प्रवृत्तिनिवृत्तिजीवनयोनिभेदात् ।
इच्छाजन्यो गुणः प्रवृत्तिः । द्वेषजन्यो गुणो निवृत्तिः । जीवनादृष्टजन्यो गुणो
जीवनयोनिः । स च प्राणसंचारकारणम् ।
धर्ममाह - विहितेति । वेदविहितेत्यर्थः । अधर्मवारणाय वेदविहितेति ।
यागादिक्रियावारणाय कर्मजन्य इति । कर्मनाशाजलस्पर्शांकीर्तनभोग-
तत्त्वज्ञानादिना नश्यति । अधर्मलक्षणमाह निषिद्धेति । वेदेनेत्यर्थः । धर्मवार-
णाय वेदनिषिद्धेति ! वेदनिषिद्धक्रियावारणाय कर्मजन्य इति । स च भोग-
प्रायश्चित्तादिना नश्यति । एतावेव अदृष्टमिति कथ्येते वासनाजन्यो च ।
वासना च विलक्षणसंस्कारः ।
संस्कारं विभजते—संस्कार इति । २सामान्यगुणात्मविशेषगुणोभयवृत्ति-
गुणत्वव्याप्यजातिमान् संस्कारः । ३घटादिवारणाय गुणत्वव्याप्येति । ४संयो-
हि०दी
१. किसी वस्तुके सम्बन्धमें “इदं द्विष्टसाधनम्” इस ज्ञानसे उत्पन्न होने वाला जो
गुण वह द्वेष है ।
२. सामान्यगुण वेग और स्थितिस्थापक तथा आत्माका विशेषगुण संस्कार, इनमें
रहने वाली गुणत्वव्याप्या जाति संस्कारत्वजाति जिसमें रहे, वह संस्कार है ।
३. केवल जातिमान् लक्षण करनेपर घटत्वजातिमान् घटमें अतिव्याप्ति होगी,
उसका वारण करनेके लिये गुणत्वव्याप्यपर्यन्त निवेश किया ।
४. “सामान्यगुणवृत्तिगुणत्वव्याप्यजातिमान् संस्कारः” ऐसा लक्षण करनेपर
संयोगत्वजातिको लेकर संयोगमें अतिव्याप्ति हो जायगी । इसके वारणार्थ ‘आत्म-
विशेषगुणोभयवृत्ति’ पद दिया ।