तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 194, कुल 199 में से
संदर्भ में पढ़ेंसहिन्दीपदकृत्यसहितः १७७
स्मृतिः कतिविधा ?—
स्मृतिरपि द्विविधा—यथार्था अयथार्था च । प्रमाजन्या
यथार्था, अप्रमाजन्या अयथार्था ।
सुखस्य किं लक्षणम् ?—
सर्वेषामनुकूलवेदनीयं सुखम् ।
दुःखस्य किं लक्षणम् ?—
प्रतिकूलवेदनीयं दुःखम् ।
इच्छाद्वेषप्रयत्नानां कानि लक्षणानि ?
इच्छा कामः । क्रोधो द्वेषः । कृतिः प्रयत्नः ।
पदकृत्यम्
१पुनरसम्भववारणाय व्यापकारोप इति । अत्र बह्न्यभावो व्याप्यः धूमा-
भावो व्यापकः । २यद्यपि तर्कस्य विपर्ययात्मकत्वेन पृथग्विभागोऽनुचितः,
तथापि प्रमाणानुग्राहकत्वात् स उदित इति बोध्यम् । स्वप्नस्तु पुरीतद्बहिर्दे-
शान्तर्देशयोः सन्धौ इडानाड्यां वा मनसि स्थितेऽदृष्टविशेषेण धातुदोषेण
वा जन्यते । स च मानसविपर्ययान्तर्गतः ।
सुखं निरूपयति-सर्वेषामिति । सर्वात्मनामनुकूलमिति वेद्यं यत्तत्सुख-
मित्यर्थः ।
अहम् सुखीत्यनुभवसिद्धसुखत्वजातिमत्, ३धर्ममात्रासाधारणकारणो गुणो
वा सुखम् । शत्रुदुःखवारणाय सर्वेषामिति ।
प्रतिकूलेति । दुःखत्वजातिमत्, अधर्ममात्रासाधारणकारणो गुणो वा
दुःखम् पदकृत्यं पूर्ववत् ।
इच्छां निरूपयति-इच्छेति । काम इति पर्यायः । इच्छात्वजातिमती
इच्छा । सा द्विविधा-फलेच्छा उपायेच्छा च । फलं सुखादिकं । उपायो
हिन्दी
१. व्याप्यारोपसे व्यापकारोपके सिवा और कुछ होता ही नहीं, अतः किसी
अन्यके अभिप्रायसे किया गया लक्षण असंभवदोषग्रस्त होगा, इसके वारणके लिये
व्यापकारोपपद दिया ।
२. यद्यपि तर्क भी अवास्तव होनेसे विपर्यय ही है, अतः इसका पृथग् विभाग
करना अनुचित है, तथापि अन्य विपर्यय प्रमाणके अनुग्राहक नहीं होते किन्तु तर्क तो
प्रमाणका पोषक होता है । इसी विशेषताके कारण इसे पृथक् कहा ।
३. धर्ममात्र है असाधारण कारण जिसका ऐसा बहुव्रीहि समास हैं ।
१२