तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 193, कुल 199 में से
संदर्भ में पढ़ेंअथावशिष्टपरिच्छेदः
अयथार्थानुभवस्य कति भेदाः ?—
अयथार्थानुभवस्त्रिविधः—संशयविपर्ययतर्कभेदात् ।
संशयस्य किं लक्षणम् ? –
एकस्मिन्धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यावगाहिज्ञानं संशयः ।
यथा—स्थाणुर्वा पुरुषो वेति ।
विपर्ययः कः ? —
मिथ्याज्ञानं विपर्ययः । यथा—'शुक्तौ रजतम्' इति ।
तर्कस्य किं स्वरूपम् ? —
व्याप्यारोपेण व्यापकारोपस्तर्कः । यथा—यदि वह्निर्न
स्यात्तर्हि धूमोऽपि न स्यादिति ।
पदकृत्यम्
अयथार्थानुभवं विभजते—अयथार्थेति ।
संशयं लक्षयति—एकस्मिन्निति । एकस्मिन्धर्मिणि=एकस्मिन्नेव पुरोवर्तिनि
पदार्थे, विरुद्धाः = व्यधिकरणा ये नानाधर्माः स्थाणुत्वपुरुषत्वादयस्तेषां
वैशिष्ट्यं सम्बन्धः, तदवगाहि ज्ञानं संशय इत्यर्थः । घटपटाविति समूहा-
लम्बनज्ञानस्य घटत्वपटत्वरूपविरुद्धनानाधर्मवैशिष्ट्यावगाहित्वादतिप्रस-
क्तिवारणाय एकस्मिन्निति । घटः पृथिवीति ज्ञानस्येकस्मिन्धर्मिणि घटे
घटत्वपृथिवीत्वरूपनानाधर्मवैशिष्ट्यावगाहित्वादतिप्रसङ्गवारणाय विरु-
द्धेति । पटत्वविरुद्धघटत्ववान् घट इति ज्ञानेऽतिप्रसक्तिवारणाय नानेति ।
मिथ्येति । यथार्थज्ञानवारणाय मिथ्येति । १अयथार्थवारणाय ज्ञानेति ।
तर्कं लक्षयति—व्याप्यारोपेणेति । २असम्भववारणाय व्याप्यारोपेणेति ।
हिन्दी
१. मिथ्या भुजङ्गादिमें विपर्ययत्वका वारण करनेके लिये ज्ञानपद दिया । रज्जुसर्प
मिथ्या तो है किन्तु वह ज्ञान नहीं है इसलिये उसका वारण हो गया ।
२. व्याप्यके अतिरिक्त किसी अन्यके आरोपसे व्यापकारोप असंभव होनेसे
लक्षणका असंभव हो जायगा । इसलिये असंभवदोष वारणके लिये “व्याप्यारोपेण”
यह कहा । अथवा व्याप्यारोपात्मक निमित्तके बिना भी व्यापकारोप असंभव है,
इसलिये “व्याप्यारोपेण” यह निमित्तसूचक तृतीयान्त पद दिया ।