सामग्री पर जाएँ
सर्वकोश
तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

पृष्ठ 192, कुल 199 में से

संदर्भ में पढ़ें
पृष्ठ 192

सहिन्दीपदकृत्यसहितः १७५
हस्तीति न प्रमाणम्—आकाङ्क्षाविरहात् । वह्निना सिञ्चतीति
न प्रमाणम्—योग्यताविरहात् । प्रहरे प्रहरेऽसहोच्चारितानि गामा-
नयेत्यादिपदानि न प्रमाणम्—सान्निध्याभावात् ।
वाक्यं कतिविधम् ? —
वाक्यं द्विविधम्—वैदिकं लौकिकं च । वैदिकमीश्वरोक्तत्वात्स-
र्वमेव प्रमाणम् । लौकिकं त्वाप्तोक्तं प्रमाणम् । अन्यदप्रमाणम् ।
शाब्दज्ञानं किम् ? —
वाक्यार्थज्ञानं शाब्दज्ञानम् । तत्करणं तु शब्दः ।
। इति शब्दपरिच्छेदः ।
पदकृत्यम्
नन्वेतावता शाब्दसामग्री प्रपञ्चिता । प्रमाविभाजकवाक्ये शब्दस्याप्यु-
द्दिष्टत्वेन तत्कुतो न प्रदर्शितमित्यत आह - वाक्यार्थेति । शाब्दत्वं च
शब्दात्प्रत्येमीत्यनुभवसिद्धा जातिः । शाब्दबोधक्रमो यथा—चैत्रो ग्रामं
गच्छतीत्यत्र ग्रामकर्मकगमनानुकूलवर्तमानकृतिमांश्चैत्र इति शाब्दबोधः ।
द्वितीयायाः कर्मत्वमर्थः, धातोर्गमनम् । अनुकूलत्वं च संसर्गमर्यादया
भासते । लटो वर्तमानत्वम्, आख्यातस्य कृतिः । तत्सम्बन्धः संसर्गमर्यादया
भासते । रथो गच्छतीत्यत्र गमनानुकूलव्यापारवान् रथः इति शाब्दबोधः ।
स्नात्वा गच्छतीत्यत्र गमनप्रागभावावच्छिन्नकालीनस्नानकर्ता गमनानुकूल-
वर्तमानकृतिमानिति शाब्दबोधः । क्त्वाप्रत्ययस्य कर्ता पूर्वकालीनत्वं चार्थः ।
एवमन्यत्रापि वाक्यार्थो बोध्यः ।
। इति पदकृत्ये शब्दपरिच्छेदः ।