तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 189, कुल 199 में से
संदर्भ में पढ़ेंअथोपमानपरिच्छेदः
उपमानलक्षणं किम् ?—
उपमितिकरणमुपमानम् । संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः,
तत्करणं सादृश्यज्ञानम् । तथाहि—कश्चिद् गवयपदार्थमजानन् कुत-
श्चिदारण्यकपुरुषात् 'गोसदृशो गवय' इति श्रुत्वा वनं गतो वाक्यार्थं
स्मरन् गोसदृशं पिण्डं पश्यति, तदनन्तरमसौ गवयशब्दवाच्य
इत्युपमितिरुत्पद्यते ।
। इत्युपमानपरिच्छेदः ।
पदकृत्यम्
अवसरसङ्गतिमाभप्रेत्यानुमानान्तरमुपमानं निरूपयति—उपमितीति ।
उपमितेः करणमुपमानमित्यर्थः । कुठारादिवारणाय १मितीति । प्रत्यक्षादि-
वारणाय उपेति । संज्ञासंज्ञीति । अनुमित्यादिवारणाय सम्बन्धेति । संयोगा-
दिवारणाय संज्ञासंज्ञीति । असौ गवयशब्दवाच्य इति २अभिप्रेतो गवयो
गवयपदवाच्य इत्यर्थः । तेन गवयान्तरे शक्तिग्रहाभावप्रसङ्ग इति दूषणम-
पास्तम् । तथा च गोसादृश्यविशिष्टपिण्डज्ञानं करणम् । ३अतिदेशवाक्यार्थ-
स्मरणमवान्तरव्यापारः । उपमितिः फलमिति सारम् ।
तच्चोपमानं त्रिविधं – सादृश्यविशिष्टपिण्डज्ञानमसाधारणधर्मविशिष्ट-
पिण्डज्ञानं वैधर्म्यविशिष्टपिण्डज्ञानं च । तत्राद्यमुक्तमेव । द्वितीयं यथा—
४खड्गमृगः कीदृगिति पृष्टे नासिकाल्सदेकशृङ्गोऽनतिक्रान्तगजाकृतिश्चेति
तज्ज्ञातृभ्यः श्रुत्वा कालान्तरे तादृशं पिण्डं पश्यन्नतिदेशवाक्यार्थं स्मरति,
तदनन्तरं खड्गमृगः खड्गपदवाच्य इत्युपमितिरुत्पद्यते । अत्र नासिकाल्सदे-
कशृङ्ग एवासाधारणधर्मः । तृतीयं यथा—उष्ट्रः कीदृगिति पृष्टे अश्वादिवन्न
समानपृष्ठो न ह्रस्वग्रीवशरीरश्चेति आप्तोक्ते कालान्तरे तत्पिण्डज्ञानं,
ततोऽतिदेशवाक्यार्थस्मरणं, तत उष्ट्र उष्ट्रपदवाच्य इत्युपमितिरुत्पद्यते ।
। इति पदकृत्ये उपमानपरिच्छेदः ।
हिन्दी
१. उपमानलक्षणमें ज्ञानार्थक 'मिति'पद न हो तो छिदादिक्रियाके करण कुठारादिमें
अतिव्याप्ति होने लगेगी । एवं 'उप' यह उपसर्गपद न दिया जाय तो मिति = ज्ञानके
करण प्रत्यक्ष-अनुमान और शब्द प्रमाणोंमें उपमानलक्षणकी अतिव्याप्ति होने लगेगी ।
२. 'असौ' पदसे गवयसामान्य अभिप्रेत है । अर्थात् गवयमात्रमें गवयपदवाच्यताका
ग्रह होनेसे गवयान्तरमें शक्तिग्रह नहीं हो सकेगा यह दूषण नहीं आ सकता है ।
३. "गोसदृशो गवयो भवति" यही अतिदेश वाक्य है ।
४. खड्गमृगः = गैंडा ।
। इति तर्कसंग्रहपदकृत्यहिन्दीटिप्पण्यामुपमानपरिच्छेदः ।
❖❖❖