तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 190, कुल 199 में से
संदर्भ में पढ़ेंअथ शब्दपरिच्छेदः
शब्दप्रमाणस्य किं स्वरूपम् ?—
आप्तवाक्यं शब्दः । आप्तस्तु यथार्थवक्ता । वाक्यं पदसमूहः,
यथा-गामानयेति । शक्तं पदम् । अस्मात्पदादयमर्थो बोद्धव्य
इतीश्वरसङ्केतः शक्तिः ।
पदकृत्यम्
अवसरसङ्गतिमाभप्रेत्योपमानान्तरं शब्दं निरूपयति—आप्तेति । शब्द
इति । शब्दप्रमाणमित्यर्थः । भ्रान्तविप्रलम्भकयोर्वाक्यस्य शब्दप्रमाणत्व-
वारणाय आप्तेति । ननु कोऽयमाप्त इत्यत आह—आप्तस्त्विति । यथार्थ-
वक्ता = यथाभूताबाधितार्थोपदेष्टा । वाक्यं लक्षयति—वाक्यमिति । घटादि-
समूहवारणाय पदेति । शक्तमिति । निरूपक^१तासम्बन्धेन शक्तिविशिष्ट-
मित्यर्थः । अस्मादिति । घटपदाद्घटरूपोऽर्थो बोद्धव्य इतीश्वरेच्छैव शक्ति-
रित्यर्थः । ^२अर्थस्मृत्यनुकूलपदार्थसम्बन्धत्वं तल्लक्षणम् । शक्तिरिव लक्षणापि
पदवृत्तिः ।
अथ केयं लक्षणा ? शक्यसम्बन्धो लक्षणा । सा च त्रिधा—
^३जहत्-अजहत्-जहदजहद्भेदात् । वर्तते च गङ्गायां घोष इत्यत्र गङ्गापद-
हिन्दी
१. “अस्मात् पदादयमर्थो बोद्धव्यः” इस सङ्केतके अनुसार ईश्वरेच्छानिरूपित-
पदजन्यबोधविषयतारूपा शक्ति स्वरूपसम्बन्धसे अर्थमें रहती है, किन्तु वही शक्ति
(उक्त विषयता) परम्पराया निरूपकतासम्बन्धसे पदमें रहती है। इसी अभिप्रायसे
“शक्तम्” का अर्थ निरूपकतासम्बन्धसे ‘शक्तिविशिष्टम्’ ऐसा किया ।
२. शाब्दबोधमें उपयोगी पदार्थस्मृति होती है और पदार्थस्मृतिके अनुकूल जो
पद और अर्थका सम्बन्ध है, वही शक्ति और लक्षणारूप पदवृत्ति है । क्योंकि शक्तिके
समान लक्षणा भी पदवृत्ति है।
३. जहल्लक्षणाका उदाहरण-“गङ्गायां घोषः” है। क्योंकि यहाँ पूर्णरूपसे
शक्यार्थ-प्रवाहका परित्याग हो जाता है और तीरका बोध होता है ।
अजहल्लक्षणाका उदाहरण है—“छत्राणि यान्ति”। क्योंकि छत्रशब्दसे छत्रसहित
छत्रधारी व्यक्तियोंका बोध होता है ।
जहदजहल्लक्षणाका उदाहरण है—“सोऽयमश्वः”। यहाँ “सः” पदका शक्यार्थ
है—तद्देशवृत्तित्वविशिष्ट अश्वव्यक्ति । इसमें तद्देशवृत्तित्वांशका परित्याग कर तथा
व्यक्त्यंशका अपरित्योग कर एतद्देशवृत्ति अश्वका बोध होता है । “तत्त्वमसि” यह
यह महावाक्य भी इसका उदाहरण है ।