तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 188, कुल 199 में से
संदर्भ में पढ़ेंसहिन्दीपदकृत्यसहितः १७१
वह्निस्तत्रार्द्रेन्धनसंयोगो नास्ति अयोगोलके आर्द्रेन्धनसंयोगाभावा-
दिति साधनाव्यापकता । एवं साध्यव्यापकत्वे सति साधनाव्याप-
कत्वादार्द्रेन्धनसंयोग उपाधिः । सोपाधिकत्वाद्वह्निमत्त्वं व्याप्य-
त्वासिद्धम् ।
बाधितस्य किं लक्षणम् ? —
यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः । यथा-
वह्निरनुष्णो द्रव्यत्वादिति । अत्रानुष्णत्वं साध्यं तदभाव उष्णत्वं
स्पार्शनप्रत्यक्षेण गृह्यते इति बाधितत्वम् ।
। इत्यनुमानपरिच्छेदः ।
पदकृत्यम्
आत्मनि व्यभिचारवारणाय ‘बहिः’ पदम् । यत्र प्रत्यक्षस्पर्शाश्रयत्वं तत्र
नोद्भूतरूपवत्त्वमिति साधनाव्यापकत्वं च, वायावुद्भूतरूपविरहात् ।
तृतीयो यथा — ध्वंसो विनाशी जन्यत्वादित्यत्र भावत्वमुपाधिः । तस्य
यत्र विनाशित्वं तत्र भावत्वमिति न केवलसाध्यव्यापकत्वम्, प्रागभावे
भावत्वविरहात्, किन्तु जन्यत्वरूपसाधनावच्छिन्नविनाशित्वं यत्र, तत्र
भावत्वमिति साधनावच्छिन्नसाध्यव्यापकत्वमेव । यत्र जन्यत्वं तत्र न
भावत्वमिति साधनाव्यापकत्वञ्च, ध्वंसे भावत्वविरहात् । एवं स श्यामो
मित्रातनयत्वादित्यत्र शाकपाकजन्यत्वमुपाधिः । श्यामत्वस्य नीलघटेऽपि
सत्त्वान्न केवलसाध्यव्यापकत्वम्, किन्तु साधनावच्छिन्नसाध्यव्यापकत्वमेव ।
अष्टमे पुत्रे शाकपाकजन्यत्वविरहेण साधनाव्यापकत्वं चेत्यादिकमपि
द्रष्टव्यम् ।
यस्येति । १सद्धेतुवारणाय प्रमाणान्तरेणेति । घटादिवारणाय साध्येति ।
। इति पदकृत्येऽनुमानपरिच्छेदः ।
हिन्दी
१. भ्रमात्मक साध्याभावके निश्चयको लेकर सद्धेतु भी बाधित न हो जाय इसके
लिए प्रमाणान्तरका निवेश किया । उदासीन घटादिके अभावनिश्चयसे सद्धेतु भी
बाधित न हो जाय, इसके लिए साध्यपद दिया । अर्थात् साध्याभावनिश्चयसे ही हेतु
बाधित होता है ।
। इति श्रीकेदारनाथत्रिपाठिकृतायां तर्कसंग्रहपदकृत्यहिन्दीटिप्पण्यामनुमानपरिच्छेदः ।