तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 151, कुल 199 में से
संदर्भ में पढ़ें१३४ तर्कसंग्रहे [ अवशिष्टपरिच्छेदः
नित्यद्रव्यनिष्ठेति । नित्यद्रव्यनिष्ठा या विशेष्यता, तन्निरूपिता या एकमात्र-
वृत्तिभेदानुमितिजनकतावच्छेदकप्रकारता, तादृशप्रकारताश्रयत्वं विशेषत्वमित्यर्थः ।
इदमत्र रहस्यम् — नित्यद्रव्यरूपपक्षे इतरभेदानुमितौ करणीयायाम् इतर-
भेदरूपसाध्यव्याप्यविशेषवन्नित्यद्रव्यमित्याकारकः परामर्शो जनकः । अत्र नित्य-
द्रव्यं विशेष्यं, विशेष्यता नित्यद्रव्यनिष्ठा, तन्निरूपिता प्रकारता विशेषनिष्ठा, सैव
च परामर्शनिष्ठाया जनकताया विषयविधया अवच्छेदिका । अत इतरभेदानु-
मितिजनकतावच्छेदकप्रकारताश्रयत्वस्य विशेषपदार्थे सत्त्वाल्लक्षणसमन्वयः ।
उक्तनिष्कर्षे भेदविशेषणीभूतैकमात्रवृत्तित्वविशेषणस्य फलमाह— पार्थिव-
परमाणाविति । 'पार्थिवपरमाणुः जलादिभिन्नो गन्धात्' इत्यत्र जलादिभेदव्या-
प्यगन्धवान् पार्थिवपरमाणुरित्याकारकपरामर्शस्य जनकतया तदवच्छेदकीभूतप्रका-
रताश्रयत्वस्य गन्धे सत्त्वादतिव्याप्तिरतः एकमात्रवृत्तित्व भेदविशेषणम् । तथा च
गन्धो नैकस्मिन्नेव परमाणौ इतरभेदानुमिति जनयति किन्तु सर्वेषु परमाणुष्विति
नातिव्याप्तिः । विशेषस्तु एकस्मिन्नेवानुमिति जनयतीति भावः । 'घटः इतरेभ्यो
भिद्यते, तद्घटीयरूपात्' इति स्थले घटनिष्ठविशेष्यतानिरूपितैकमात्रवृत्तिभेदानु-
मितिजनकतावच्छेदकप्रकारताश्रयत्वस्य तद्घटीयरूपे सत्त्वात्तत्र विशेषलक्षणाति-
व्याप्तिरतो नित्यद्रव्यनिष्ठविशेष्यतानिरूपितेत्युक्तम् । तथा च घटस्यानित्य-
द्रव्यत्वाद वारणम् ।
न्या.बो. उक्तनिष्कर्षकरणस्य प्रयोजनमाह — एतेनेति । प्रयोजकत्वाभिप्रायेण
पृ.७७.नित्यद्रव्यवृत्तय इति पदस्य प्रयोज्यत्वाभिप्रायेण च व्यावर्तका इति पदस्य
व्याख्यानेनेत्यर्थः । नित्यद्रव्यविशेष्यकेतरभेदानुमितिप्रयोजका इति ।
विशेषा इति शेषः । विफलमिति । ननु नित्यद्रव्यवृत्तय इति पदम् स्वरूपप्रद-
र्शनपरं स्यादतो न विफलमत आह— स्वरूपाख्यानस्यापीति । व्यावर्तकपदेनैव
कृतत्वादित्यर्थः । प्रयुक्तमिति । प्रयोज्यप्रयोजकभावस्य प्रकृते प्रकटनेन तत्-
सार्थक्यमिति भावः ।
समवायं व्याख्यातुमाह समवायमिति । सम्बन्धपदार्थमाह — सम्बन्ध-
त्वमिति । विशिष्टप्रतीतिः = रूपी घटो दण्डी पुरुष इति प्रतीतिः । उभयत्र
क्रमेण समवायसंयोगौ विशिष्टप्रतीतिनियामकावतस्तौ सम्बन्धौ ब्रूयेते । समवाय-
लक्षणे नित्यपदफलमाह — तावदिति । समवायोऽयुतसिद्धयोस्तिष्ठतीत्यतोऽयुत-
न्या.बो.सिद्धवृत्तिरित्युच्यते । अयुतसिद्धपदार्थं बोधयितुं प्रतीकमुपादत्ते — ययोर्द्वयोर्मध्य
पृ.७८.इतीति । यन्निष्ठं कालनिष्ठाधिकरणतानिरूपिताधेयतासामान्यं यदवच्छिन्नं
तदुभयान्यतरत्वमयुतसिद्धत्वमित्यर्थः ।
अयमाशयः— सर्वे पदार्थाः कालिकसम्बन्धेन काले तिष्ठन्ति स्वाधिकरणा-
वच्छेदेन । यथा घटत्वं काले कालिकसम्बन्धेन विद्यते घटावच्छेदेन, न तु पटा-