सामग्री पर जाएँ
सर्वकोश
तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

पृष्ठ 152, कुल 199 में से

संदर्भ में पढ़ें
पृष्ठ 152

न्यायबोधिनी-संस्कृत-कला १३५

वच्छेदेन । अत्र कालोऽधिकरणं, घटत्वमाधेयम्, घटोऽवच्छेदकः । तथा च घटत्व-
निष्ठं कालनिष्ठाधिकरणतानिरूपिताधेयतासामान्यं घटावच्छिन्नमस्ति, अतो
घटत्वं घटश्च परस्परमयुतसिद्धौ भवत इति भावः ।
अत्यन्ताभावं व्याख्यातुमाह-अत्यन्ताभावमिति । परिष्कृतं तल्लक्षण-
माह - प्रागभावेत्यादि । प्रत्येकपदव्यावृत्तिमाह - ध्वंसेति । ध्वंसे अति-
व्याप्तिवारणाय प्रागभावाप्रतियोगित्वे सतीति, प्रागभावेऽतिव्याप्तिवारणाय
ध्वंसाप्रतियोगित्वे सतीति, अन्योन्याभावेऽतिव्याप्तिवारणायान्योन्याभावभिन्नत्वे
सतीति पदान्युक्तानि । आकाशेऽतिव्याप्तिवारणायाभावत्वमित्युक्तम् । त्रैकालिकेति
पदमपसार्य मूललक्षणमेव किञ्चित् परिष्कृत्याङ्गीकरोति - वस्तुतस्त्विति ।
न्याय.बो. ध्वंसप्रागभावयोरतिव्याप्त्यभावं प्रदर्शयति-ध्वंसप्रागभावयोश्चेति । ननु
पृ.७८. तर्हि मूलोक्तत्रैकालिकेतिपदस्य का गतिरत आह- स्वरूपाख्यानमेवेति ।
स्वरूपकथनमात्रमित्यर्थः ।
अन्योन्याभावं निरूपयतीति । अभावत्रयवारणाय विशेषणम् =
तादात्म्यसम्बन्धावच्छिन्नत्वरूपविशेषणमित्यर्थः । ननु तादात्म्यसम्बन्धावच्छिन्न-
प्रतियोगितावगाहिज्ञानविषयत्वमन्योन्याभावत्वं स्यात्, न तु तादात्म्यसम्बन्धा-
वच्छिन्नप्रतियोगितानिरूपकत्वमन्योन्याभावत्वमिति शङ्कायामाह-घटाभाववन्ने-
तीति । तथा च तादृशप्रतीतिविषयत्वस्य घटादौ सत्त्वात् तत्रातिव्याप्तिवारणा-
यैव 'प्रतियोगिताक' इति विशेष्यदलमित्यर्थः । उक्तप्रतियोगितानिरूपकोऽन्योन्या-
भाव एव भवति न तु घटादिरिति तु सारः ।
ननु तर्कसङ्ग्रहग्रन्थमूले द्रव्यगुणादयः सप्तैव पदार्था निरूपिताः सादृश्या-
दयो न्यायसूत्रोक्तप्रमाणादयश्च पदार्थास्तु न निरूपिताः, अतो न्यूनतेत्याशङ्कां
'सर्वेषामि'ति मूलव्याख्यानायावतारयति - नन्विति । न्यायसूत्रोक्तषोडशपदार्थान्
न्याय.बो. सूत्रोपन्यासेन ज्ञापयति-प्रमाणप्रमेयसंशयप्रयोजनेत्यादि ।
पृ.८०. एतेषां कथं सप्तस्वान्तर्भाव इति चेत्, इत्थम्-प्रमाणानि चत्वारि प्रत्यक्षा-
नुमानोपमानशब्दाः । तेषु प्रत्यक्षं प्रमाणमिन्द्रियात्मकम्, इन्द्रियाणां च घ्राणरसन-
चक्षुःत्वक्श्रोत्राणां क्रमेण पृथिवीजलतेजोवाय्वाकाशात्मकद्रव्येष्वन्तर्भावः । मनो-
रूपेन्द्रियस्यापि द्रव्ये अन्तर्भावः । व्याप्तिज्ञानसादृश्यज्ञानपदज्ञानानाम् अनुमानोप-
मानशब्दप्रमाणभूतानां गुणेऽन्तर्भावः । आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रेत्यभावफल-
दुःखापवर्गास्तु प्रमेयम् । एतेषु इन्द्रियाणामन्तर्भावस्तु द्रव्ये कथित एव । आत्मनो
द्रव्ये, शरीरस्य द्रव्ये, गन्धरसरूपस्पर्शशब्दानामर्थपदवाच्यानां गुणे, बुद्धेर्गुणे,
वाग्बुद्धिशरीरारम्भरूपायाः प्रवृत्तेः यत्नरूपतया गुणे, रागद्वेषमोहरूपदोषाणां
क्रमेणेच्छाद्वेषमिथ्याज्ञानस्वरूपाणां गुणे, प्रेत्य = मृत्वा भावो = जननमिति
व्युत्पत्त्या मरणोत्तरजन्मैव प्रेत्यभावः, तत्र चरमप्राणशरीरसंयोगध्वंसो मरणम्,