सामग्री पर जाएँ
सर्वकोश
तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

पृष्ठ 150, कुल 199 में से

संदर्भ में पढ़ें
पृष्ठ 150

न्यायबोधिनी संस्कृत-कला १३३
स्मृतिहेतुत्वमुक्तम् । तथा सति स्मृतौ अनुभवजन्यत्वसत्त्वेऽपि स्मृतिहेतुत्वाभावात्
नातिव्याप्तिरिति भावः । अक्षराणि तु स्वयं योज्यानि ।
न्या.बो. सामान्यलक्षणं व्याख्यातुमाह—सामान्यं निरूपयतीति । लक्षणस्वरूप-
पृ.७५.माह—नित्यत्वे सतीति । गोत्वं हि नित्यत्वात् अनेकासु गोव्यक्तिषु समवायेन
सत्त्वाच्च सामान्यम् । सामान्यं जातिरित्यनर्थान्तरम् । नित्यत्वविशेषणस्य
फलमाह—नित्यत्वेति । संयोगो हि द्विष्ठो भवति । अतोऽनेकसमवेतत्वात्
तत्रातिव्याप्तिवारणाय नित्यत्वे सतीति देयम् । संयोगो न नित्य इति नाति-
व्याप्तिः । अनेकसमवेतत्वानुक्तौ नित्यत्वमात्रस्य चोपादाने दोषमाह—अनेकेति ।
आकाशस्य नित्यत्वेऽपि अनेकसमवेतत्वाभावात् नातिव्याप्तिरिति भावः । अनेक-
पदोपादानस्य फलमाह—अनेकेति । नित्यत्वे सति समवेतत्वमात्रोक्तौ आकाश-
गतैकत्वसंख्यापरिमाणादेः जलीयपरमाणुगतरूपादेश्च नित्यत्वात् स्वाधिकरणे
समवायसम्बन्धेन वर्तमानत्वाच्च तत्र तत्रातिव्याप्तिवारणायानेकेति पदम् । तथा
च तेषामेकैकस्मिन् समवेतत्वेन नातिव्याप्तिरिति । नित्यत्वे सत्यनेकनिरूपित-
समवायसम्बन्धावच्छिन्नवृत्तित्तावत्त्वम्, नित्यत्वे सति स्वाश्रयान्योन्याभावाधिकरण-
निरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्तावत्त्वं वा सामान्यत्वमिति निष्कर्षः । एवं=
जातित्वेनाभिमतं गोत्वादिकम् ।
न्या.बो. विशेषलक्षणं व्याख्यातुमाह—नित्यद्रव्यवृत्तय इतीति । नित्यद्रव्यवृत्तय
पृ.७६.इति वाक्यम् प्रयोजकपरतया व्याचष्टे—नित्यद्रव्येष्विति । व्यावर्तकाः
इत्यस्यार्थमाह—इतरभेदानुमितिहेतव इति । एतदेव स्फुटयति—नित्य-
द्रव्यवृत्तित्वेति । नित्यद्रव्यवृत्तित्वरूपा या पक्षधर्मता, तत्प्रयोज्या या इतर-
भेदानुमापकता, तच्छालिनो विशेषाः भवन्ति ।
अयं भावः—विशेषा हि नित्यद्रव्येषु परमाण्वादिषु इतरपरमाण्वादिभ्यो
भेदमनुमापयन्ति, अतो विशेषेषु इतरभेदानुमापकता विद्यते । अनुमिति प्रति व्याप्ति-
विशिष्टपक्षधर्मताज्ञानस्य हेतुतया विशेषनिष्ठानुमापकतायाः प्रयोजिका नित्यद्रव्यवृ-
त्तित्वरूपा पक्षधर्मता भवत्येव । तथाहि अयं घटोऽस्माद् घटाद्भिद्यते भिन्नावयवा-
रब्धत्वात् । एवं रीत्या त्रसरेणुपर्यन्तं गत्वा, अयं त्रसरेणुः अस्मात् त्रसरेणोर्भिन्नः,
भिन्नावयवारब्धत्वात्, तत इदं द्वयणुकमस्माद् द्वयणुकाद् भिन्नं भिन्नावयवारब्ध-
त्वात् इति भिन्नावयवारब्धत्वहेतुना द्वयणुकपर्यन्तम् इतरभेदः साध्यते । किन्तु
परमाण्वादिनित्यद्रव्येष्ववयवाभावात् नानेन हेतुना परमाणुषु मिथः इतरभेदः
साधयितुं शक्यते । किन्तु अयं परमाणुः अस्मात् परमाणोर्भिन्नः विशेषादिति
विशेष एव तत्र हेतुर्भवति । हेतुर्हि पक्षे वर्तमान एव साध्यं साधयति नावर्तमानः ।
तथा च नित्यद्रव्यरूपपक्षवृत्तित्वमनुमापकतायां प्रयोजकं सिद्धमेव । निष्कर्षमाह—