सामग्री पर जाएँ
सर्वकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 36, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 36

२६ श्रीतन्त्रालोकः ।
कृतम् इयर्ति गच्छति इत्यर्थानुगमात् तत्तद्भेददशाप्र-
सररूपं च, तथा 'ग्रन्थिभिः' बन्धनैः 'बिलैः' च सलि-
लनिर्गमनस्थानैः 'ग्रन्थौ' मायाया द्वितीयस्मिन् भेदे
'बिलैः' बिलाकाराभिः भगसंज्ञाभिर्भोगभूमिभिश्च
'अवकीर्णं' व्याप्तम्, तथा 'आतानवितानवृत्ति' आ-
यामपार्श्वमानयुक्तं विश्वाकारत्वात् सर्वतः प्रसरद्रूपं
च, तथा 'कलया' विच्छित्तिविशेषेण कलातत्त्वेन
च अर्थात्क्षितिपर्यन्तेन 'उम्भितम्' आरब्धम्। यदुक्तम्
'मायारूपं भवेज्जालं धारयेत्कुलचिन्तकः ।
विश्वाकारं महाजालं नाडीसूत्रनियोजितम् ॥
भुवनाक्षसमोपेतं तत्त्वग्रन्थिदृढीकतम् ।
कलारागयुतं चैव.................................॥'
इत्यादि ॥ ७ ॥
'श्रीमच्छ्रीकण्ठनाथाज्ञावशात्सिद्धा अवातरन् ।
त्र्यम्बकामर्दकाभिख्यश्रीनाथा अद्वये द्वये ॥
द्वयाद्वये च निपुणाः क्रमेण शिवशासने ।
आद्यस्य चान्वयो जज्ञे द्वितीयो दुहितृक्रमात् ॥
स चार्धत्र्यम्बकाभिख्यः सन्तानः सुप्रतिष्ठितः ।
अतश्चार्धचतस्रोऽत्र मठिकाः सन्ततिक्रमात् ॥'
पं० ३ क० पु० धारयेत्कुलेति पाठः ।