सामग्री पर जाएँ
सर्वकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 35, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 35

श्लो० ७ ] प्रथममाह्निकम् । २५
रागारुणां ग्रन्थिबिलावकीर्णां
यो जालमातानवितानवृत्ति ।
कलोम्भितं बाह्यपथे चकार
स्तान्मे स मच्छन्दविभुः प्रसन्नः ॥ ७ ॥
‘स’ सकलकुलशास्त्रावतारकतया प्रसिद्धः
‘मच्छाः पाशाः समाख्याताश्चपलाश्चित्तवृत्तयः ।
छेदितास्तु यदा तेन मच्छन्दस्तेन कीर्तितः ॥’
इत्याद्युक्त्या पाशखण्डनस्वभावो मच्छन्द एव परमे-
श्वरसमावेशशालित्वात् ‘विभुः’ मम प्रसन्नः ‘स्तात्’
स्वात्मदर्शनसंविभागपात्रतामाविष्कुर्यात् इत्यर्थः ।
यो ‘जालं’ मत्स्यबन्धनम्, इन्द्रजालप्रायां च मायां
‘बाह्यपथे चकार’
‘अष्टौ सिद्धा महात्मानो जालपृष्ठाः सुतेजसः ।’
इत्याद्युक्त्या तुरीयतास्वरूपावहितत्वेन संकोचा-
पहस्तनादनवधेयतां च निन्ये इत्यर्थः । तच्च ‘रागेण’
गैरिकादिद्रव्येण रागतत्त्वेन च ‘अरुणां’ लोहिती-
पं० ११ क० पु० इन्द्रियजालप्रायामिति पाठः ।
पं० १४ ख० पु० इत्याद्युक्तोत्तरीयतेति पाठः ।
पं० १५ ख० पु० हस्तनादवधेयतामिति च पाठः ।
४