सामग्री पर जाएँ
सर्वकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 37, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 37

श्लो० ८ ] प्रथममाह्निकम्। २७
इति वक्ष्यमाणस्थित्या श्रीसन्तत्यामईकत्रैयम्बका-
र्धत्रैयम्बकाख्यासु सार्धासु तिसृषु मठिकासु मध्यात्
वक्ष्यमाणतन्त्रप्रक्रियायाः त्रैयम्बकमठिकाश्रयेण
आयातिक्रमोऽस्ति इति सामान्येन तावत् गुरून्-
भिमुखयति
त्रैयम्बकाभिहितसन्ततिताम्रपर्णी-
सन्मौक्तिकप्रकरकान्तिविशेषभाजः ।
पूर्वे जयन्ति गुरवो गुरुशास्त्रसिन्धु-
कल्लोलकेलिकलनामलकर्णधाराः ॥८॥
'त्रैयम्बक' इति 'अभिहिता' 'सन्ततिः' मठिका
इत्यर्थः ॥ ८ ॥
एवं
'शैवादीनि रहस्यानि पूर्वमासन्महात्मनाम् ।
ऋषीणां वक्त्रकुहरे तेष्वेवानुग्रहक्रिया ॥
कलौ प्रवृत्ते यातेषु तेषु दुर्गमगोचरम् ।
कलापिग्रामप्रमुखमुच्छिन्ने शिवशासने ॥

  • ० १ क० पु० इत्यादिवक्ष्यमाणेति पाठः ।
  • ० ३ ख० पु० मठिकाश्रयेणायातिक्रमोऽस्तीति पाठः ।