तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 34, कुल 368 में से
संदर्भ में पढ़ें२४ श्रीतन्त्रालोकः ।
इत्याद्युक्तदृशा अवश्यमेव शास्त्रकारैः स्वगुर्वादेः
कीर्तनं कार्यम्, अतश्च वक्ष्यमाणशास्त्रस्य कुलतन्त्र-
प्रक्रियात्मकत्वेन द्वैविध्येऽपि
‘नभःस्थिता यथा तारा न भ्राजन्ते रवौ स्थिते ।
एवं सिद्धान्ततन्त्राणि न विभान्ति कुलागमे ॥
तस्मात्कुलादृते नान्यत्संसारोद्धरणं प्रति ।’
इत्याद्युक्त्या कुलप्रक्रियायाः प्रक्रियान्तरेभ्यः प्राधा-
न्यात्
‘भैरव्या भैरवात्प्राप्तं योगं व्याप्य ततः प्रिये ।
तत्सकाशात्तु सिद्धेन मीनाख्येन वरानने ॥
कामरूपे महापीठे मच्छन्देन महात्मना ।’
इत्यादिनिरूपितस्थित्या तदवतारकं तुर्यनाथमेव
तावत् प्रथमं कीर्तयति
पं० २ क० ख० पु० वक्ष्यमाणस्य शास्त्रस्येति पाठः ।
पं० ७ क० पु० इत्यायुक्तः कुलप्रक्रियाया अधिकारः कुलप्रक्रियायास्तु प्रक्रियान्त-
रेभ्य इति पाठः ।
पं० ९ ख० पु० योगं व्यापि ततः इति पाठः ।
पं० ११ क० पु० कामपीठे महापीठे इति पाठः ।