सामग्री पर जाएँ
सर्वकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 33, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 33

श्लो० ६ ] प्रथममाह्निकम् । २३
तत्तदिन्द्रियप्रसृतसंविद्वारेण 'उच्छलयतात्' विका-
सयतात्, तदेकमयतामुत्पादयतात् इत्यर्थः । अब्धिस-
मुच्छलनसमुचितत्वाच्च 'स्फुरदिन्दुकान्तिः'इत्युक्तम् ।
वस्तुतो हि अपानव्याप्तिरस्यास्ति इत्येवं-निर्देशः ।
अथ च 'देवीसुतो' वटुकोऽप्येवंविधः, किंतु शरीरस्य
धवलिम्ना 'स्फुरदिन्दुकान्तिः' । अस्य हि प्राणव्या-
प्तिरस्ति इत्येवं निर्दिशन्ति गुरवः । 'देवीसुत' इत्यु-
भयोरपि कुलशास्त्रोचितोऽयं व्यपदेशः । तदुक्तम्
'देवीपुत्रोऽत्र वटुकः स्वशक्तिपरिवारितः ।'
इति ।
'गणेशो विघ्नहर्तासौ देवीपुत्रः ..........।'
इति च ॥ ६ ॥
इह खलु शास्त्रादौ
'............स्रोतोभेदं संख्यानमेव च ।
प्रवर्तयेद् गुरुं स्वं च स्तेयी स्यात्तदकीर्तनात् ॥'
पं० २ ग० पु० उत्पादयेतामिति पाठः ।
पं० ५ क० पु० अत एव देवीति पाठः ।
पं० ७ ख० पु० व्याप्तिरस्तीति गुरव इति 'एवं निर्दिशन्ति' इति वाक्यहीनः पाठः ।