सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

गतमवेत् ॥ २८ ॥
अथ देवैः केन छन्दसा आसुरं छन्दोऽपहृतमिति उभयं विवि-
च्य दर्शयति—
ते देवा असुराणामेकाक्षरेणैव पञ्चदशाक्षरमवृञ्जत
द्व्यक्षरेण चतुर्दशाक्षरं त्र्यक्षरेण त्रयोदशाक्षरञ्चतुरक्षरेण
द्वादशाक्षरं पञ्चाक्षरेणैकादशाक्षरँ षडक्षरेण दशाक्ष-
रँ सप्ताक्षरेण नवाक्षरमष्टाभिरेवाष्टाववृञ्जत ॥ २९ ॥
ते प्रजापतिसहायेन समृद्धा देवाः स्वकीयेनैकाक्षरेणैव छन्दसा
असुराणां पञ्चदशाक्षरं यत्परमं छन्दस्तदवृञ्जत अपावर्जयन् । द्व्यक्षरेणा-
त्मीयेन छन्दसा आसुरं चतुर्दशाक्षरं छन्दोऽवृञ्जत । एवमुत्तरत्रापि
योज्यम् । अष्टाक्षरस्य छन्दसोऽन्तरालवर्त्तित्वेनोभयसाधारणत्वात्
अष्टाभिरेवाऽक्षरैः आसुराण्यष्टाक्षराण्यवृञ्जत ॥ २९ ॥
एतद्वेदनफलमाह—
एवमेव भ्रातृव्याद्भूतिं वृङ्क्ते य एवं वेद ॥ ३० ॥
यथा देवाः स्वकीयैश्छन्दोभिः असुराणाञ्छन्दांसि क्रमेणाऽवर्ज्ज-
यन् एवमेव भ्रातृव्यात् शत्रोः भूतिमैशवर्ध्यं वृङ्क्ते वर्जयति य एवमुक्तं
ब्राह्मणार्थं जानाति ॥ ३० ॥
अथ प्रकारान्तरेण तद्वेदनस्य फलमाह—
अपरुद्धयज्ञ इव वा एष यत् षोडशी कनीयस्विन-
इव वै तर्हि देवा आसन् भूयस्विनोऽसुराः कनीयस्वी
भूयस्विनं भ्रातृव्यं वृङ्क्ते य एवं वेद ॥ ३१ ॥
यत् योऽयं षोडशी नाम यज्ञक्रतुः एषः अपरुद्धयज्ञ इव वै। इवेत्य-
वधारणे । शत्रुभिरवरुध्यमानेन आक्रम्यमाणेन क्रियमाणो यज्ञोऽपरुद्धय-
ज्ञः। तादृश एव खलु । तत्कस्य हेतोः ? तस्मिन् काले असुरैः सह युद्ध-
समये कनीयस्विनः (१)कनीयांसि एकाक्षरादीनि सप्ताक्षरान्तानि छन्दां-
सि आसुरेभ्यश्छन्दोभ्यो (२)न्यूनाक्षरत्वात् अल्पीयांसि तद्वन्तो देवाः
अल्पा एवाऽऽसन्। नवाक्षरादीनि पञ्चदशाक्षरान्तानि छन्दांसि बह्वक्ष-
रत्वात् भूयांसि तद्वन्तो असुरा महान्त आसन् । एवञ्च सति अधिकब-
लैस्तैरुपरुध्यमाना देवाः षोडशिनमाहृत्य (३)तत्रत्येनाऽऽनुष्टुभेन प्रजा-
१. अल्पीयांसीति. क. ख. पु. २. अल्पाक्षरत्वादिति. क. ख. पु.
३. मध्यवर्तिनेति. क. ख. पु.

द्वादशाध्याये त्रयोदशः खण्डः । ४१३
पत्तिना तानधिकानसुरानभ्यभवन् । तस्मादेष षोडशी अवरुद्ध्यङ्ग
इति य एवं वेद जानाति, स वेदिता कनीयस्वी अल्पीयानपि भूयस्वि-
नं अधिकं भ्रातृव्यं शत्रुं वृङ्क्ते वर्जयति ॥ ३१ ॥
अथ यदुक्तं सूत्रकारेण 'हविर्द्धानं गत्वा षोडशिग्रहमवेक्षेतोद्गाता
यस्मादन्य' इति तन्मन्त्रविहितमवेक्षणं विधत्ते—
“यस्मा॒दन्यो॒ न प॒रो ऽस्ति जा॒तो य आ॑ब॒भूव॒ भुव॑-
ना॑नि॒ विश्वा॑। प्र॒जाप॑तिः प्र॒जया॑ सꣳविदा॒नस्त्रीणि॒ ज्यो-
तीꣳ॑षि सचते॒ स षो॒ड॒शी”त्युद्गाता ग्रहमवेक्षते ॥३२॥
यस्मात्प्रजापतेस्सर्वकारणभूतादन्यो व्यतिरिक्तः परो जात उत्पन्नो नाऽ-
स्ति, यश्च विश्वानि सर्वाणि भुवनानि भूतजातानि आबभूव (१)कारणा-
त्मना व्याप्तोऽभूत् । भू प्राप्ताविति धातुः । स प्रजापतिः, प्रजानामीश्वरो
देवः प्रजया आत्मीयया, सामान्याभिप्रायमेकवचनम् । स्वात्मनस्रष्टव्येन
सर्व्वेण(२) कार्य्यजातेन संविदानः ऐकमत्यं गच्छन् त्रीणि ज्योतींषि च-
न्द्रसूर्याग्निरूपाणि, अथवा गार्हपत्यदक्षिणाग्न्याहवनीयात्मकानि ते-
जांसि सचते व्याप्नोति । स एव प्रजापतिः षोडशी षोडशिग्रहा-
त्मना कार्य्यरूपेण वर्त्तत इति मन्त्रार्थः । अनेन मन्त्रेण उद्गाता खरे
आसादितं षोडशिग्रहमवेक्षते ॥ ३२ ॥
एतद्वेदनं प्रशंसति—
ज्योतिष्मानस्य षोडशी भवति य एवं वेद ॥ ३३ ॥
स्पष्टमेतत् ॥ ३३ ॥
अथ पूर्ववदेतस्मिन् स्तोत्रे स्तोमक्लृप्तिं विधाय (३)स्तौति—
एकविंश एव स्तोमो भवति प्रतिष्ठायै प्रतितिष्ठति॥३४॥
पूर्वेषु स्तोत्रेषु यः स्तोमो विहितः स एवैकविंशोऽस्याऽपि स्तो-
त्रस्य स्तोमो भवति प्रतिष्ठायै प्रतिष्ठानार्थम् । अत एतेनैकविंशेन स्तो-
मेन (४)स्तुतेन यजमानः प्रतितिष्ठति ॥ ३४ ॥
१. कारणत्वेनेति. क. पु. २. कर्मजातेनेति. क. पु.
३. प्रस्तौतीति. क. पु. ४. कृतेनेति. क. पु.

४९४ ताण्ड्यमहाब्राह्मणे
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमहाराजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीवीरबुक्कभूपाल-
साम्राज्यधुरन्धरेण (१)सायणाचार्येण विरचिते माधवीये सामवेदार्थ-
प्रकाशे ताण्ड्यमहाब्राह्मणे द्वादशाध्यायस्य त्रयोदशः खण्डः ॥
द्वादशाध्यायः समाप्तिमगमत् ॥
१. सायणमात्येनेति क. पु.
सर्वविधपुस्तकप्राप्तिस्थानम्—
जयकृष्णदास-हरिदास गुप्तः-
चौखम्बा संस्कृत सीरीज आफिस,
विद्याविलास प्रेस, बनारस सिटी ।

This page is blank and contains no Vedic text or commentary to transcribe.

Government of India,
DEPARTMENT OF ARCHAEOLOGY,
Frontier Circle Library,
SRINAGAR.
—◇◇—
Accession No. 1259
Class No. 294.1 Book No. —
Ved/say
DATE DUE

Library Slip:

Archaeological Library,
$\underline{\quad 294\cdot 1\quad/\quad 1259 \quad}$
Call No. $Ved \mid Sas$
Author— Sayānāchārya
Title— Tandya Maha [Brahmana]


Book Pocket:

"A book that is shut is but a block"
CENTRAL ARCHAEOLOGICAL LIBRARY
GOVT. OF INDIA
Department of Archaeology
NEW DELHI.
[Seal: SRINAGAR / CIRCLE]
Please help us to keep the book clean and moving.


(Note: This page contains only the modern library slip and pocket card for Sāyaṇa's commentary on the Tāṇḍya Mahābrāhmaṇa; it contains no Vedic Sanskrit text.)

काशी संस्कृत सीरीज़ ग्रन्थमाला
९५ संस्कारदीपकः । म० म० पण्डित श्रीनित्यानन्दपन्त पर्वतीयविरचितः । संपूर्णः ।
(कर्मकाण्ड वि० ८) रु० ८—०
९६ वर्षकृत्यदीपकः । कालनिर्णयव्रतोद्यापनसहितः । म० म० पं० नित्यानन्दपन्त-
पर्वतीय विरचितः । (कर्मकाण्ड वि० ९) रु० ३-८
९७ श्रौतसूत्रम् । श्रीमन्महर्षि-लाट्यायनप्रणीतमग्निष्टोमान्तम् । (कर्म० वि० १०) रु० २—०
९८ नलचम्पूः अथवा दमयन्तीकथा । महाकविश्रीत्रिविक्रमभट्टविरचिता । विषमपद-
प्रकाशाख्यव्याख्यया सहिता । भावबोधिनी टिप्पणी सहिता । (का० वि०१६) रु० १-४
९९ श्रीब्रह्मसूत्रम् । श्रीभगवन्निम्बार्क महामुनीन्द्रविरचित वेदान्तपारिजात सौरभा-
ख्यसूत्रवाक्यार्थेन श्रीश्रीमन्निम्बार्काचार्यचरणप्रणीत श्रीवेदान्तकौस्तुभभाष्येण च
सनाथीकृतम् । ( श्रीनिम्बार्कभाष्यम् ) (वेदान्त वि० १०) रु० ३—०
१०० वाग्वल्लभः ! सर्वथाऽपि नवीनोऽङ्गी प्रौढः परमोपयोगितया नियतमुपादेयतमोऽच्छ-
न्दोनिबन्धः, श्रीमत्ता दैवज्ञाग्रेसरेणागममार्मिकेण कविपुङ्गवेन दुःखभञ्जनविदुषा
विरचितः, तत्सुतेन बहुशास्त्रापारगेण कविचक्रवर्त्तिना महामहोपाध्यायेन देवीप्रसाद-
पण्डितप्रवरेण कृतया वरवर्णिन्त्या टीकयोपस्कृतः । (छन्दः शास्त्र वि० ४) रु० २-८
१०१ सिद्धान्तलक्षणम् । श्रीजगदीशंतर्कालङ्कारकृतम् । न्यायाचार्य श्रीशिवदत्तमिश्र-
विरचित गङ्गाख्यव्याख्या टिप्पणी सहितम् । (न्याय विभागे ४) ) रु० १-८
१०२ वेदभाष्यभूमिकासंग्रहः । (सायणाचार्यविरचितानां ऋग्वेदभाष्यभूमिकानां
संग्रहः) । [वेद० वि० ५] रु० २-८
१०३ माधवीयधातुवृत्तिः । श्रीमत्सायणाचार्यविरचिता । (व्या० वि० १२) रु० ५-०
१०४ बौधायनधर्मसूत्रम् । श्रीगोविन्दस्वामिप्रणीतविवरणसमेतम् । [कर्म०वि० ११] रु० ४-०
१०५ ताण्ड्यमहाब्राह्मणम् । सायणाचार्यविरचितभाष्यसहितम् । (प्रथमोभागः)
(वेद वि० ६) रु० ५-०
१०६ न्यायमञ्जरी । जयन्तभट्टकृता । न्याय-व्याकरणाचार्येण पं० सूर्यनारायणशास्त्रिणा
कृतया टिप्पण्या समेता । द्वितीयोभागः । [न्या० वि० १६] रु० ३-०
१०७ शारदातिलकम् । श्रीमद्राघवभट्टकृतपदार्थादर्शटीकासहितम् ।
(तन्त्रशा० वि० १) रु० ५-०
१०८ मन्त्रार्थदीपिका । म० म० श्रीशत्रुघ्नविरचिता । (वेद० वि० ७) रु० २-०
१०९ शब्दशक्तिप्रकाशिका । श्रीमज्जगदीशंतर्कालङ्कारविनिर्मिता । श्रीकृष्णकान्त-
विद्यावागीशकृतया कृष्णकान्तीटीकया श्रीमद्रामभद्रसिद्धान्तवागीशात्मजरचितया
रामभद्रीटीकया च समलङ्कृता । न्यायाचार्य काव्यतीर्थ पं० ढुंढिराजशास्त्रि-
कृतया छात्रोपयुक्तया विषमस्थलटिप्पण्या मूलकारिकार्थेन च सहिता ।
(न्या० वि० १६) रु० ४-८
११० योगदर्शनम् (पातञ्जलदर्शनम्) भगवत्पतञ्जलिरचितं, राघवानन्दसरस्वतीकृत-
"पातञ्जलहस्येत्याख्य"टिप्पनीयुक्तया द्वादशदर्शनमजनप्रज्ञानेन वाचस्पतिमिश्रवि-
रचितया "तत्त्ववैशारद्या"व्याख्यया भूषितेन विज्ञानभिक्षुनिर्मित"योगवार्त्तिक"-
समुल्लसितेन मधुपुरीयकपिलग्रन्थरत्नमिहिरहरिहरानन्दारण्यकृतभास्वतीवृत्त्या
संवलित भगवच्छ्रीकृष्णद्वैपायनप्रणीतदेवोपज्ञ-"सांख्यप्रवचन" भाष्येनोद्द्योति-
तम्, तदविशेषाेषु श्रीमन्माधवसम्प्रदायाचार्य-दार्शनिकसार्वभौम-साहित्य-
दर्शनारविन्देन्दीवररत्न-न्यायरत्न-गोस्वामिदामोदरशास्त्रिणा विहितया टिप्पन्त्या
"पातञ्जलरहस्यानिकया" भूमिकया च संवलितम्, एतदीयसंशोधनसम्पादन-
कर्मीकृतञ्च । (योगशास्त्रविभागे ३) रु० ५-०
प्राप्तिस्थानम्-चौखम्बा संस्कृत पुस्तकालय, बनारस सिटी