सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 366, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 366

३४६ ताण्ड्यमहाब्राह्मणे
मनु पश्चात् प्राण उपदस्यति यजमानस्य प्राणोऽपि क्षयं प्राप्नोति । हि
यस्मात् सोमः प्राणः प्राणहेतुः तस्मात् सोमस्योपदासे प्राणोपदासो
युक्त इत्यर्थः ॥ १ ॥
अत एवं सति प्रायश्चित्तमपेक्षितम् तत्र शाखान्तरीयं मतं तावद्दर्शयति—
तदाहुः पयोऽवनयेदिति ॥ २ ॥
तत्तत्र कलशे उपदासविषय आहुः केचिच्छाखिनः । किमिति ?
पयोऽवनयेदिति द्रोणकलशस्थे सोमे उपक्षीणे तत्र दुग्धं पयोऽवनीय
तेन सोमकार्याणि कर्त्तव्यानीति ॥ २ ॥
अथ स्वमतं दर्शयति—
अथो खल्वाहुरन्तर्हितमिव वा एतद्यत्पयो हिरण्य-
मेवाऽपोऽभ्यवनयेद्धिरण्यमभ्युन्नयेदिति ॥३॥
अथो खल्विति पक्षान्तरपरिग्रहे । अभिज्ञा ब्रह्मवादिन आहुः कथ-
यन्ति । किमिति ? यत् एतदन्तर्हितमिव वै अन्तर्हितमसन्निकृष्टमप्रत्यक्ष-
मेव दोहनात्प्राक् गवामूधसि वर्त्तमानस्याऽप्रत्यक्षत्वात् । अतः सोमस्या-
न्तर्द्धाने अन्तर्हितस्य पयसोऽवनयनमयुक्तम् । किं तर्हि?द्रोणकलशेऽव-
नेयम्। तदुच्यते-द्रोणकलशे हिरण्यं निधाय अपोऽभ्यवनयेदभिपूरयेदि-
त्याहुः । (१)‘सोमस्य वा अभिषूयमाणस्य प्रिया तनूरुदक्रामत्। तत्सुवर्णं
हिरण्यमभवदिति'श्रुत्यन्तरात् सुवर्णं सोमस्य प्रियशरीरम् । अभि रुप-
यर्थः । सुवर्णस्योपरि वसतीवर्याख्या हैयङ्गवीनमिश्रिता अपोऽवनये-
दासिञ्चेत् । चमसानामुन्नयनकाले तेषु च हिरण्यं निधायाऽभ्युन्नयेद-
भिपूरयेदित्याहुर्ब्रह्मवादिनो ब्रूयुः ॥ ३ ॥
अस्मिन् पक्षे प्रागुक्तस्य प्राणोपदासस्य परिहारो यथा भवति
तथा दर्शयति—
प्राणा वा आपोऽमृतं हिरण्यममृत एवाऽस्य प्राणान्
दधाति स सर्व्वमायुरेति ॥ ४ ॥
आपः प्राणा वै प्राणरूपा एव तद्धेतुत्वात्।(२)‘अन्नमयं हि सौम्य मन
आपोमयः प्राण' इति हि वयमधीमहे । हिरण्यञ्चाऽमृतं मरणरहितं त-
स्य तैजसत्वेनाऽत्यन्ताग्निसंयोगेऽपि विनाशाभावात् । अत्र चाऽपां हिर-
ण्यस्य च समुच्चयविधानादस्य यजमानस्य प्राणानमृते मरणाभाव
एव दधाति निदधाति स्थापयति । अतः स यजमानः सर्व्वं सम्पूर्णं ब्रा-
१. तै. ब्रा. १. ४. ७. ४. २. छान्दो. उ. ६. ७. ६.