सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 367, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 367

नवमाध्याये नवमः खण्डः । ३४७
ह्लानक्लृप्तं शतवर्षलक्षणं आयुरेति प्राप्नोति ॥ ४ ॥
अथ नाराशंसस्योपशोषणे प्रायश्चित्तं विधित्सुः पूर्ववत्तस्य शो-
षणमनर्थहेतुरिति दर्शयति—
यस्य नाराशंस उपवायति नाराशंसमेवास्योपवी-
यन्तं प्राणोऽनुपदस्यति प्राणो हि सोमः ॥ ५ ॥
सवनमुखेष्वग्नौ समुद्धृताः पुनर्भक्षिताः पुनर्वसतीवरीभिः'आप्या-
यस्व' इति मन्त्रेण पूरिताश्चमसा नाराशंसाः। सामान्याभिप्रायमेकवच-
नम्। यस्य यजमानस्य नाराशंस उपवायति उपशुष्यति 'ओवै शोषणे
भौवादिकः। उपवायन्तमुपशुष्यन्तं नाराशंसमनु पश्चादस्य यजमानस्य
प्राण उपदस्यत्युपशुष्यति क्षयमुपगच्छति । नाराशंसात्मकः (१)शुष्य-
माणः सोमो हि यस्मात् प्राणसंस्कृतः तस्मादित्यर्थः ॥ ५ ॥
तत्र कर्तव्यमाह—
यमध्वर्युंरन्ततो ग्रहं गृह्णीयात्तस्याऽऽप्तुमवनयेत् ॥ ६ ॥
यमध्वर्युंरन्तः समीपे नाराशंसशोषणसमीपकाले गृह्णीयात् त-
स्यैकदेशमग्नौ हुत्वा प्राणसंस्कृतं नाराशंसमाप्तुं प्राप्त्यर्थं हुतशेषं च-
मसे यथाऽऽसिञ्चेत् । तथा चाध्वर्युसूत्रम्(२)'यदि नाराशंस उपदस्येद्य-
मध्वर्युः पूर्वं ग्रहं गृह्णीयात्तं वषट्कृतानुवषट्कृते हुत्वा चमसाध्वर्यवे
प्रयच्छेत्तेनैनं स आप्याययतीति' ॥ ६ ॥
तदेतद्ग्रहावनयनं प्रशंसति—
प्रायश्चित्यै वै ग्रहो गृह्यते प्रायश्चित्येवाऽस्मै प्रायश्चि-
त्तिं करोति ॥ ७ ॥
नाराशंसोपशोषणसमये ग्रहो गृह्यते स न केवलं होमार्थं तथैव
गृह्यते । अपि तु सन्निधानात् प्रायश्चित्यै प्रायश्चित्तार्थमपि । अतः प्रा-
यश्चित्तार्थं गृहीतेन ग्रहेणैवाऽस्मै यजमानाय प्रायश्चित्तिं प्रायो वि-
नाशस्तस्य समाधानं ज्ञानं चित्तिर्नाराशंसोपशोषणजनितदोषस्यो-
पशमनं करोति ॥ ७ ॥
(३)यदि पीतापीतौ सोमौ सङ्गच्छेयातामन्तः परिध्य-
१. शुष्यमाण इत्यपपाठः । २. आप. श्रौ. १४. २८. १.
३. इदमेव वाक्यमापस्तम्बश्रौतसूत्रे हुताहुतसंसर्गप्रायश्चित्ततया हुताहुतपदघटितमा-
म्नातं ( आप. श्रौ. १४. ३०. २. ) तत्र द्रष्टव्यम् ।