ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 365, कुल 518 में से
संदर्भ में पढ़ेंनवमाध्याये नवमः खण्डः । ३४५
एवमेव स्तोमस्याऽप्यपरिमितत्वे प्रसक्तमिदमुच्यते । पवमानास्त्रिषु स-
वनेषु वर्त्तमानाः बहिष्पवमानाद्यास्त्रिवृतस्त्रिवृत्स्तोमयुक्ताः कार्याः ।
इतरत् पवमानव्यतिरिक्तं सर्वं स्तोत्रं सप्तदशं सप्तदशस्तोमकं कार्यम्॥१४॥
तदेतदुभयं प्रशंसति—
यत्त्रिवृतः पवमाना भवन्ति प्राणा वै त्रिवृत्प्राणाने-
वोपयन्ति यत्सप्तदशमितरत् सर्व्वं प्रजापतिर्व्वै सप्तदशः
प्रजापतिमेवोपयन्ति ॥ १५ ॥
स्पष्टमेतत् ॥ १५ ॥
अथाऽस्मिन्नस्थिकर्तृकप्रयोगे प्रातिस्विकं ग्रहाग्रत्वं विधत्ते—
प्राणापानैर्व्वा एते व्यृध्यन्त इत्याहुर्ये मृताय कुर्व्व-
न्तीति मैत्रावरुणाग्रान् ग्रहान् गृह्णते प्राणापानौ मित्रा-
वरुणौ प्राणापानैरेव समृध्यन्ते ॥ १६ ॥
एत ऋत्विजः प्राणापानैः प्राणवायुभिरपानवायुभिश्च विप्रयुज्य-
न्त इत्याहुर्ब्रह्मवादिनः। ये मृताय यजमानायाऽऽर्त्विज्यं कुर्व्वन्तीति । अ-
त्राऽयं परिहारः-प्रातःसवने विद्यमानान् ग्रहान् मैत्रावरुणाग्रान् मित्राव-
रुणौ देवते यस्य मैत्रावरुणोऽग्रे प्रमुखे येषां ते तथोक्तास्तथाविधान्
ग्रहान् गृह्णते गृह्णीयुः । मित्रश्च वरुणश्चेति यौ देवौ तावेव प्राणापानाव-
तस्तद्देवत्यग्रहाग्रत्वेन प्राणापानैरेवैते समृध्यन्ते समृद्धा भवन्ति
चिरजीविनो भवन्तीत्यर्थः ॥ १६ ॥
इति ताण्ड्यमहाब्राह्मणे वेदार्थप्रकाशसहिते
नवमाध्यायस्याऽष्टमः खण्डः ॥
अथ नवमः खण्डः ॥
अथ द्रोणकलशस्थस्य सोमस्य क्षये प्रायश्चित्तं विधित्सुस्तस्य
दोषमाह—
यस्य कलश उपदस्यति कलशमेवाऽस्योपदस्यन्तं
प्राणोऽनूपदस्यति प्राणो हि सोमः ॥ १ ॥
यस्य यजमानस्य कलशो द्रोणकलशस्थस्सोम उपदस्यति क्षयं
प्राप्नोति, दसु उपक्षये, अस्य यजमानस्योपदस्यन्तं क्षीयमाणं कलश-