ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 250, कुल 518 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the page into Unicode Devanagari, matching the original text and layout:
२३० ताण्ड्यमहाब्राह्मणे
अथ कामभेदे निधनान्याह—
इडां पशुकामाय निधनं कुर्यात्स्वः स्वर्गकामाय यशो
ब्रह्मवर्चसकामायायुरामयाविने हॐसीत्यभिचरते ॥११॥
उत्तमश्चाकारो गायत्रस्य निधनन्तस्य स्थाने यत् कामयते तस्य
प्रयोगे तदानुगुण्येन तत्तन्निधनं कुर्यात् । सर्वत्र चतुर्थीश्रुतेः । यजमा-
नफलान्येतानि नित्ये क्रियमाणानि तत्तत् फलं क्रतुफलव्यतिरेकेण
साधयन्तीति केचित् । पशुकामादियज्ञेष्वपीत्यपरे ॥ ११ ॥
अथैतानि स्तौति--
एते वै गायत्रस्य दोहाः ॥ १ ॥
दुहन्त एभिरिति दोहाः । एतदपेक्षया निधनानि । एत इति पुल्लि-
ङ्गत्त्वेन निर्द्दिष्टाः ॥ १२ ॥
वेदितुरप्येतत् फलं