तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
तृतीयोऽनुवाकः ॥ ३ ॥
३०४ (१.८.४) तैत्तिरीयब्राह्मणम्
उ॒च्चैरा॑दि॒त्याया॒ आश्रा॑वयति । उपा ँ॒ शु मा॑रु॒त्यै ।
तस्मा॑द्रा॒ष्ट्रं विश॒मति॑ वदति । गर्भि॒ण्या॑दि॒त्या भ॑वति (२) ।
इ॒न्द्रि॒यं वै गर्भः॑ । रा॒ष्ट्रमे॒वेन्द्रि॒याव्य॑कः । अग॑र्भा मा॑रु॒ती ।
विड्वै म॒रुतः॑ । विश॑मे॒व निरि॑न्द्रियामकः । दे॒वा॒सु॒रा
संय॑त्ता आसन् । ते देवा अ॒श्विनोः॑ पू॒ष्ण्वाचः॑ स॒त्य ँ॒
संनि॒धाय॑ । अनृ॑तेनासु॒रान॒भ्य॑भवन् । तेऽश्विभ्यां॑ पू॒ष्णे
पु॒रोडाशं॒ द्वाद॑शकपालं॒ निर॑पवन् । ततो॒ वै ते वाचः॑
स॒त्यमवा॑रुन्धत (३) । यद॒श्विभ्यां॑ पू॒ष्णे पु॒रोडाशं॒
द्वाद॑शकपालं॒ निर्वप॑ति । अनृ॑तेनै॒व भ्रातृ॑व्यान॒भिभूय॑ ।
वाचः॑ स॒त्यमव॑रुन्धे । सर॑स्वते स॒त्यवा॑चे च॒रुम् ।
पूर्व॑मे॒वोदि॑तम् । उत्तरे॑णा॒भिगृ॑णाति । स॒वि॒त्रे स॒त्यप्र॑सवाय
पु॒रोडाशं॒ द्वाद॑शकपालं॒ प्रसू॑त्यै । दू॒तान्प्रहि॑णोति । आ॒विदो॑
ए॒ता भ॑वन्ति । आ॒विद॑मे॒वैनं॑ गमयन्ति । अथो॑ दू॒तेभ्य॑ ए॒व
न च्छि॑द्यते । ति॒सृधन्व ँ॒ शुष्क॑दृ॒तिर्दक्षि॑णा॒ समृ॑द्ध्यै (४) ।
अर्धयति भवत्यरुन्धत गमयन्ति द्वे च॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टकेऽष्टमाध्याये
तृतीयोऽनुवाकः ॥ ३ ॥
अथाष्टमप्रपाठके चतुर्थोऽनुवाकः ।
आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति । तस्मा॑च्छिशि॒रे
कु॒रु॒पञ्चा॒लाः प्राञ्चो॑ यान्ति । सौ॒म्यं च॒रुम् । तस्मा॑द्वस॒न्तं
व्य॑व॒साया॑दयन्ति । सा॒वि॒त्रं द्वाद॑शकपालम् ।
तस्मा॑त्पुर॒स्ताद्यवा॑ना ँ॒ सवि॒त्रा विरु॑न्धते । बा॒र्ह॒स्प॒त्यं
च॒रुम् । स॒वि॒त्रैव विरु॑ध्य । ब्रह्म॑णा य॒वानाद॑धते ।
त्वा॒ष्ट्र॒म॒ष्टाक॑पालम् (१) । रूपाण्ये॒व तेन॑ कुर्वते । वै॒श्वान॒रं
द्वाद॑शकपालम् । तस्मा॑ज्जघ॒न्ये नैदा॑घे प्र॒त्यञ्चः॑
कु॒रु॒पञ्चा॒ला या॑न्ति । सार॒स्वतं च॒रुं निर्व॑पति ।
चतुर्थोऽनुवाकः ॥ ४ ॥
तैत्तिरीयब्राह्मणम् (१.८.५) ३०५
तस्मा॑त्प्रा॒वृषि॒ सर्वा॒ वाचो॑ वदन्ति । पौ॒ष्णेन॒ व्यव॑स्यन्ति ।
मै॒त्रेण॑ कृषन्ते । वा॒रु॒णेन॒ विधृ॑ता आसते क्षेत्रपत्ये॑न
पाच॑यन्ते । आ॒दि॒त्येनाऽऽद॑धते (२) । मा॒सि मा॑स्ये॒तानि॑
ह॒वी ꣳ षि॒ नि॒रूप्या॒णीत्या॑हुः । तेनै॒वर्तून्प्रयु॑ङ्क्त॒ इति॑ ।
अथो॒ खल्वा॑हुः । कः सं॑वत्स॒रं जी॑विष्य॒तीति॑ । षडे॒व
पूर्वे॒द्युर्नि॒रूप्या॑णि । षडु॑त्तरे॒द्युः तेनै॒वर्तून्प्रयु॑ङ्क्ते । दक्षि॑णो
रथवाहनवा॒हः पूर्वेषां॒ दक्षि॑णा । उत्त॑र उत्तरे॑षाम् ।
सं॒व॒त्स॒रस्यै॒वान्तौ॑ युनक्ति । सु॒वर्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै
(३) ।
त्वा॒ष्ट्रम॒ष्टाक॑पालं दधत्ते युनक्तयेकं॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टकेऽष्टमाध्याये
चतुर्थोऽनुवाकः ॥ ४ ॥
अथाष्टमप्रपाठके पञ्चमोऽनुवाकः ।
इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यं वी॒र्यं॑ परा॑पत् । स यत्प्र॑थ॒मं
निर॑ष्ठीवत् । निर॑ष्ठीं॒वत् । तत्क्व॑लमभवत् । यद्द्वि॒तीय॑म् ।
यद्ब॒दर॑म् । यत्तृ॒तीय॑म् । तत्क॒र्कन्धु॑: । यन्ना॑स्तः । स सि॒-
हः । यदक्ष्यो॑: (१) । स शार्दू॒लः । यत्कर्ण॑योः । स
वृक॑: । य ऊ॒र्ध्वः । स सोम॑: । याऽर्वा॑ची । सा सुरा॑ ।
त्र॒याः सक्त॑वो भवन्ति । इ॒च्छिय॒स्याव॑रुद्ध्यै । त्र॒याणि॑
लोमा॑नि (२) त्विषि॑मे॒वाव॑रुन्धे । त्रयो॒ ग्रहा॑:
वी॒र्य॑मे॒वाव॑रुन्धे नाम्नां दश॒मी । नव॒ वै पुरु॑षे प्रा॒णाः
नाभि॑र्दश॒मी । प्रा॒णा ई॑न्द्रि॒यं वी॒र्य॑म् । प्रा॒णाने॒वेन्द्रि॒यं वी॒र्य॑'
यज॑मान आ॒त्मन्ध॑त्ते । सीसे॑न क्ली॒बाच्छष्पा॑णि क्रीणाति ।
न वा ए॒तद्यो न हिर॑ण्यम् (३) । यत्सीस॑म् । न स्त्री न
पुमा॑न् । यत्क्ली॒बः । न सोमो॒ न सुरा॑ ।
यत्सौ॑त्रामणीस॒मृद्ध्यै॑ । स्वा॒द्वीं त्वा॑ स्वा॒दुनेत्या॑ह ।
पञ्चमोऽनुवाकः ॥ ५ ॥
३०६ (१.८.६) तैत्तिरीयब्राह्मणम्
सो॒ममे॒वैनां॑ करोति । सोमो॑ऽस्य॒ शिवभ्यां॑ पच्यस्व॒ सर॑स्वत्यै
पच्य॒स्वेन्द्रा॑य सु॒त्राम्णै॑ पच्य॒स्वेत्या॑ह । ए॒ताभ्यो॒ ह्ये॑षा
दे॒वता॑भ्यः॒ पच्य॑ते । ति॒स्रः स ँसृ॑ष्टा वसति (४) । ति॒स्रो
हि रात्रीः॑ क्री॒तः सोमो॒ वस॑ति । पु॒नातु॑ ते॒ परिस्रुतो॒मिति॑
यजु॑षा पुनाति॒ व्यावृ॑त्यै । प॒वित्रे॑णं पुनाति । प॒वित्रे॑ण॒ हि
सो॒मं पु॒नन्ति॑ । वारे॑ण॒ शश्व॑ता॒तनेत्या॑ह वारे॑ण॒ हि सो॒मं
पु॒नन्ति॑ । वा॒युः पू॒तः प॒वित्रे॒णेति॑ नैतया॑ पुनीयात् । व्यू॑द्धा
ह्ये॑षा । अ॒तिप॒वित्रे॑णै॒तया॑ पुनीयात् । कु॒विद॒ङ्गेत्यन॑िरुक्तया
प्रा॒जा॒प॒त्यया॑ गृह्णाति । अ॒निरुक्तः प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै॑ । एक॑य॒र्चा गृ॑ह्णाति । एक॑धैव॒ यज॑माने वी॒र्य॑
दधाति । आ॒श्वि॒नं धूम्र॒माल॑भते । अ॒श्विनौ॒ वै दे॒वानां॑
भि॒षजौ॑ । ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रोति । सा॒र॒स्व॒तं मेषम् ।
वाग्वै सर॑स्वती । वा॒चैवैनां॑ भिषज्यति । ऐ॒न्द्रमृ॒षभ ँ॑
सैन्द्र॒त्वाय॑ (६) ।
अ॒क्ष्योर्लोमा॑नि॒ हिर॑ण्यं वसति गृह्णाति भिषज्यत्येकं॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टकेऽष्टमाध्याये
पञ्चमोऽनुवाकः ॥ ५ ॥
अथाष्टमप्रपाठके षष्ठोऽनुवाकः ।
यत्ति॒सृषु॒ यूपे॑ष्वाल॒भैत॑ । ब॒हिर्द्धाऽस्मा॑दिन्द्रि॒यं वी॒र्यं॑ दध्यात् ।
भ्रातृ॑व्यमस्मै॒ जन॑येत् । एक॑यूप॒ आल॑भते ।
एक॑धै॒वास्मि॑न्निन्द्रि॒यं वी॒र्यं॑ दधाति । नास्मै॒ भ्रातृ॑ यं
जन॑यति । नैतेषां॑ पशू॒नां पु॒रोडाशा॑ भवन्ति । ग्रह॑पुरोडाशा॒
ह्ये॑ते । यु॒व ँ सु॒राम॑म॒श्विनेति॑ सर्वदे॒व॒त्यै याज्यानुवा॒क्ये॑
भवतः । सर्वा॑ ए॒व दे॒वताः॑ प्रीणाति (१) । ब्राह्म॒णं
परि॑क्रीणीयादुच्छे॒षण॑स्य पा॒तारम्॑ । ब्रा॒ह्म॒णो ह्याहु॑त्या
तैत्तिरीयब्राह्मणम् (१.८.६)
उ॒च्छे॒षण॑स्य पा॒ता । यदि॑ ब्रा॒ह्म॒णं न वि॒न्देत् ।
व॒ल्मी॒क॒व॒पाया॑मव॑नयेत् । सैव ततः॑ प्राय॑श्चित्तिः । यद्वै
सौत्रा॒म॒ण्यै व्यृ॑द्धम् । तद॑स्यै॒ समृ॑द्धम् । ना॒ना॒दे॒व॒त्याः॑
प॒शव॑श्च पुरो॒डाशा॑श्च भवन्ति॒ समृ॑द्ध्यै । ऐन्द्रः॑ प॑शू॒नामु॑त्त॒मो
भ॑वति । ऐन्द्रः॑ पुरो॒डाशा॑नां प्रथ॒मः (२) । इ॒न्द्रिये ए॒वास्मै॑
स॒मीची॑ दधाति । पु॒रस्ता॑दनूया॒जानां॑ पुरो॒डाशैः॑ प्रचरति ।
प॒शवो॒ वै पुरो॒डाशाः॑ । प॒शूने॒वाव॑रुन्धे ।
ऐ॒न्द्रमेका॑दशकपालं॒ निर्व॑पति । इ॒न्द्रि॒यमे॒वाव॑रुन्धे ।
सा॒वि॒त्रं द्वाद॑शकपालं प्र॒सूत्यै॑ । वारु॒णं दश॑कपालम् ।
अन्त॑त ए॒व वरु॑णमव॑जयते । वड॑वा दक्षि॑णा (३) । उ॒त
वा ए॒षाऽश्वं 'सूते । उ॒ताश्व॑तरम् । उ॒त सोम॑ उ॒त सुरा॑ ।
यत्सौ॑त्रा॒मणीसमृ॑द्ध्यै । बार्ह॑स्प॒त्यं प॒शुं
चतु॒र्थम॑तिप॒वित्स्याऽल॑भते । ब्रह्म॑ वै दे॒वानां॒ बृह॒स्पतिः॑ ।
ब्रह्म॑णैव य॒ज्ञस्य॒ व्यृ॑द्धमपि॑वपति । पुरो॒डाश॑वाने॒ष
प॒शुर्भव॑ति । न ह्यै॒तस्य॒ ग्रहं॑ गृह्णन्ति॑ । सोम॑प्रतीकाः ।
पि॒तर॑स्तृप्णु॒तेति॑ शता॒तृष्णाया॑ 'स॒मव॑नयति (४) । श॒तायुः॑
पुरु॑षः श॒तेन्द्रि॑यः । आ॒युष्ये॒वेन्द्रि॑ये प्रति॑तिष्ठति ।
दक्षि॑णे॒ऽग्नौ जु॑होति । पा॒प॒वस्य॒सस्य॒ व्यावृ॑त्त्यै ।
हिर॑ण्यमन्त॒रा धार॑यति । पू॒तामे॒वैनां॑ जुहोति । श॒तमा॑नं
भ॑वति । श॒तायुः॑ पुरु॑षः श॒तेन्द्रि॑यः । आ॒युष्ये॒वेन्द्रि॑ये
प्रति॑तिष्ठति । यत्रै॒व श॑ता॒तृष्णां धार॑यति (५) ।
तन्निद॑धाति॒ प्रति॑ष्ठित्यै । पि॒तृन्वा ए॒तस्यैन्द्रि॑यं वी॒र्यं॑
ग॑च्छति । य ॅसोमो॑ऽति॒पव॑ते । पि॒तॄणां या॑ज्यानुवा॒क्या॑भि
रुप॑तिष्ठते । यदे॒वास्य॑ पि॒तॄनिन्द्रि॑यं वी॒र्यं॑'गच्छ॑ति । तदे॒वाव॑
रुन्धे । ति॒सृभि॒रुप॑तिष्ठते । तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ ।
ताने॒व प्री॑णाति । अथो॒ त्रीणि॒ वै य॒ज्ञस्यैन्द्रि॒याणि॑ ।
षष्ठोऽनुवाकः ॥ ६ ॥
३०८ (१.८.७) तैत्तिरीयब्राह्मणम्
अ॒ध्व॒र्युर्होता॑ ब्र॒ह्मा । त उप॑तिष्ठन्ते । यान्ये॒व॒
य॒ज्ञस्यैन्द्रि॒याणि॑ । तैरे॒वास्मै॑ भेष॒जं क॑रोति (६) ।
प्रीणा॑ति प्रथ॒मो द॑क्षि॒णा स॒मव॑नयति धार॑यतीन्द्रि॒याणि॑ च॒त्वारि॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टकेऽष्टमाध्याये
षष्ठोऽनुवाकः ॥ ६ ॥
अथाष्टमप्रपाठके सप्तमोऽनुवाकः ।
अ॒ग्नि॒ष्टोम॑मग्रे॒ आहरति । य॒ज्ञमु॒खं वा अ॑ग्नि॒ष्टोमः॑ ।
य॒ज्ञमु॒खमे॒वाऽऽर॑भ्य॒ सम॑माक्र॑मते । अथै॑षोऽभि
षेच॒नीय॑श्चतुस्त्रि ँ शः प॑वमानो भवति । त्रय॑स्त्रि ँ शद्वै॒
दे॒वाः॑ । ता ए॒वाऽऽप्नो॑ति । प्र॒जाप॑तिश्चतुस्त्रि ँ शः ।
तमे॒वाऽऽप्नो॑ति । स ँ शर॑ एष स्तोमा॑ना॒मर्यथा पूर्वम् ।
यद्द्विष॑माः स्तोमा॑: (१) । ए॒तावा॒न्वै य॒ज्ञः ।
यावा॑न्पव॑मानाः। अन्तः॑ श्ले॒ष्णं त्वा अ॒न्यत् । यत्स॑माः
पव॑मानाः । तेनास ँ शरः॑ । तेन॑ यथापूर्वम् ।
आ॒त्मनै॒वाग्नि॒ष्टोमे॒नर्ध्नो॑ति । आ॒त्मना॑ पु॒ण्यो॑ भवति । प्र॒जा
वा उ॒क्थानि॑ । प॒शव उ॒क्थानि॑ । यदु॒क्थ्यो॑ भव॒त्यनु॑संतत्यै
(२) ।
स्तोमा॑: प॒शव॑ उ॒क्थान्येकं॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टकेऽष्टमाध्याये
सप्तमोऽनुवाकः ॥ ७ ॥
अथाष्टमप्रपाठकेऽष्टमोऽनुवाकः ।
उप॑ त्वा जा॒मयो॒ गिर॒ इति॑ प्रतिप॒द्भव॑ति । वाग्वै वायुः॑ ।
वाच॑ ए॒वैषो॑ऽभिषे॒कः । सर्वा॑सामे॒व प्र॒जाना ँ सू॑यते । सर्वा॑
एनं॑ प्र॒जा राजेति॑ वदन्ति । ए॒तमु॒त्यं द॑श॒क्षिप॒ इत्या॑ह ।
आ॒दि॒त्या वै प्र॒जाः । प्र॒जाना॑मे॒वैतेन॑ सूयते । यन्ति॒ वा
तैत्तिरीयब्राह्मणम् (१.८.८) ३०९
ए॒ते य॒ज्ञमु॒खात् । ये सं भा॒र्या अक्र॑न् (१) । यदा॒हु पर्व॑स्व
वाचो अग्रिय॒ इति॑ । तेनै॒व य॒ज्ञमु॒खान्ने॑र्यन्ति ।
अ॒नु॒ष्टुब्व॑प्रथमा भ॑वति । अनु॒ष्टुगु॑त्तमा । वाग्वा अनु॒ष्टुक् ।
वा॒चैव प्रय॑न्ति । वा॒चोद्य॑न्ति । उ॒द्भूतीर्भवन्ति । उद्भूद्रा
अनु॑ष्टुभौ रू॒पम् । आनु॑ष्टुभो रा॒जन्य॑: (२)
तस्मा॑दुद्भूतीर्भव॑न्ति । सौर्य्यनु॑ष्टुगुत्तमा भ॑वति । सु॒वर्ग॒स्य॑
लो॒कस्य॒ संत॑त्यै । यो वै स॒वादे॑ति । नैन॒ ꣳसव उप॑नमति ।
यः सार्मभ्य॒ एति॑ । पापी॑यान्त्सुषुवा॒णो भ॑वति । ए॒तानि॒
खलु॒ वै सामा॑नि । यत्पृ॒ष्ठानि॑ । यत्पृ॒ष्ठानि॒ भव॑न्ति । (३)।
तैरे॒व स॒वान्नैति॑ । यानि॑ दे॒वरा॒जाना॒ꣳ सामा॑नि ।
तैर॒मुष्मिँ॑ल्लो॒क ऋ॑ध्नोति । यानि॑ मनुष्यरा॒जाना॒ꣳ
सामा॑नि । तैर॒स्मिँल्लो॒क ऋ॑ध्नोति । उ॒भयो॑रेव
लो॒कयो॒र्ऋध्नो॑ति । दे॒वलो॒के च॑ मनुष्यलो॒के च॑ । एक॑वि॒ꣳ
शौऽभिषेच॒नीय॑स्योत्तमो भ॑वति । एक॑वि॒ꣳशः
के॑शवप॒नीय॑स्य प्रथमः । स॒प्तदशो दश॑पेयः (४) । विड्वा
एक॑वि॒ꣳशः । रा॒ष्ट्रꣳ सं॑प्तद॒शः । विश॑ ए॒वैतन्मध्यतो॑ऽ
भिषि॑ञ्च्यत । तस्मा॒द्वा ए॒ष वि॒शां प्रियः॑ । विशो॒ हि
मध्यतो॑ऽभि॒षिच्य॑ते । यद्द्वा एन॑म॒दो दिशो॑ऽ
न्व॒वस्था॒पय॑न्ति । तत्सु॑व॒र्गं लो॒कम॒भ्यारो॑हति । यदि॒मं
लो॒कं न प्रत्यव॑रोहे॑त् । अति॒जनं॑ धेयात् । उद्वां माद्ये॑त् ।
यदे॒व प्रतीची॑नः स्तोमो॒ भव॑ति । इ॒ममे॒व तेन॑ लो॒कं
प्रत्यव॑रोहति । अथो॑ अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठत्यनून्चादाय
(५) ।
अक्र॑न्रा॒जन्यो॒ भव॑न्ति दश॒पेयो॑ माद्ये॒त्रीणि॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टकेऽ
ष्टमाध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥
३१० (१.८.९) तैत्तिरीयब्राह्मणम्
अथाष्टमप्रपाठके नवमोऽनुवाकः ।
इ॒यं वै रज॑ता । अ॒सौ हरि॑णी । यद्रु॒क्मौ भव॑तः ।
आ॒भ्यामे॒वैन॑मु॒भय॑तः परि॑गृह्णाति । वरु॑णस्य॒ वा
अ॒भि॒षि॒च्यमा॑न॒स्याऽपः॑ । इ॒न्द्रियं॑ वी॒र्यं॑ निर॑घ्नन् ।
तत्सु॒वर्णँ॒ हिर॑ण्यमभवत् । यद्रु॒क्मम॑न्त॒र्दधा॑ति । इ॒न्द्रि॒यस्य॑
वी॒र्य॑स्या॒निर्घा॑ताय । श॒तमा॑नो भवति श॒ताक्ष॑रः । श॒तायुः॑
पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॑ये प्रति॑तिष्ठति । आयु॒र्वै
हिर॑ण्यम् । आ॒युष्मा॒ एवैन॑म॒भ्यति॑क्षरन्ति । तेजो॒ वै
हिर॑ण्यम् । तेज॑स्या॒ एवैन॑म॒भ्यति॑क्षरन्ति । वर्चो॒ वै
हिर॑ण्यम् । वर्च॑स्या॒ एवैन॑म॒भ्यति॑क्षरन्ति (१) ।
श॒ताक्ष॑रो॒ऽष्टौ च॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टकेऽष्टमाध्याये
नवमोऽनुवाकः ॥ ९ ॥
अथाष्टमप्रपाठके दशमोऽनुवाकः ।
अप्र॑तिष्ठितो॒ वा ए॒ष इत्या॑हुः । यो रा॑जसू॒येन॒ यज॑त॒ इति॑ ।
य॒दा वा ए॒ष ए॒तेन॑ द्वि॒रा॒त्रेण॒ यज॑ते । अथ॒ प्रति॑ष्ठा । अथ॑
सं॑वत्सरमा॑प्नोति । याव॑न्ति सं॑वत्स॒रस्याहो॑रा॒त्राणि॑ ।
ताव॑तीरे॒तस्य॑ स्तोत्रीया॑ः । अहो॑रा॒त्रेष्वे॒व प्रति॑तिष्ठति ।
अ॒ग्नि॒ष्टोमः॑ । पूर्व॑मह॑र्भवति । अ॒ति॒रा॒त्र उत्त॑रम् (१) ।
नानै॒वाहो॑रा॒त्रयोः॑ प्रति॑तिष्ठति । पौ॒र्ण॒मा॒स्यां पूर्व॑मह॑र्भवति ।
व्य॑ष्टका॒यामुत्त॑रम् । नानै॒वार्थ॑मा॒सयोः॑ प्रति॑तिष्ठति ।
अ॒मा॒वा॒स्या॑यां॒ पूर्व॑मह॑र्भवति । उद्दृ॑ष्ट॒ उत्त॑रम् । नानैव॑
मा॒सयोः॑ प्रति॑तिष्ठति । अथो॒ खलु॑ । ये एव सं॑मानप॒क्षे
पुण्या॑हे स्याता॑म् । तयोः॑ का॒र्यं॒ प्रति॑ष्ठित्यै (२) । अ॒प॒श्व्यो॑
द्वि॒रा॒त्र इत्या॑हुः । द्वे ह्ये॑ते छन्द॑सी । गा॒य॒त्रं च॒ त्रैष्टु॑भं च॑ ।
तैत्तिरीयब्राह्मणम् (१.८.१०) ३११
जग॑तीम॒न्तर्द॑धन्ति । न तेन॒ जग॑ती कृ॒तेत्या॑हुः । यदैनां॑
तृ॒तीय॑सव॒ने कु॒र्वन्तीति॑ । य॒दा वा ए॒षाऽही॑न॒स्याह॒र्भज॑ते ।
सा॒हस्र्यं॒ वा सव॑नम् । अथै॒व जग॑ती कृ॒ता । अथ॑ प॒शव्यः॑ ।
व्यु॑ष्टि॒र्वा ए॒ष द्वि॑रा॒त्रः । य ए॒वं वि॒द्वान्द्वि॑रा॒त्रेण॒ यज॑ते ।
व्यै॑वास्मा॑ उच्छति । अथो॒ तम॑ ए॒वार्प॑हते । अ॒ग्नि॒ष्टोम॒मन्त॑त
आहर॑ति । अ॒ग्निः सर्वा॑ दे॒वताः॑ । दे॒वता॑स्वे॒व प्रति॑तिष्ठति
(३) ।
उत्त॑रं प्रति॒ष्ठित्यै॑ प॒शव्यः॑ स॒प्त च॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टकेऽष्टमाध्याये
दशमोऽनुवाकः ॥ १० ॥
वरु॑णस्य जा॒मीश्व॑र आ॒ग्नेय॒मिन्द्र॑स्य यन्त्रि॒ष्व॑ग्नि॒ष्टोम॒मुप॑ त्वे॒यं वै
र॑ज॒ताऽप्रति॑ष्ठितो॒ दश॑ ॥ १० ॥
वरु॑णस्य॒ यद्द्वि॒श्वभ्यां॑ यन्त्रि॒षु तस्मा॑दु॒र्द्वतीः स॒प्तत्रिँ॑शत् ॥ ३७ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे
प्रथमाष्टकेऽष्टमोऽध्यायः ॥ ८ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टकः (काण्डः )
समाप्ति॒मगमत् ॥
(मूलक्रमेण-अष्ट. १ अध्या. ८ अनु. १० (७८ ।)
(भाष्यक्रमेण-कां. प्रपा. ८ अनु. ७८) ।
[रिक्त पृष्ठ / Blank page]
Digitized by Madhuban Trust, Delhi
CC-0. Shri Vipin Kumar Col. Deoband. In Public Domain.
Digitized by Madhuban Trust, Delhi
CC-0. Shri Vipin Kumar Col. Deoband. In Public Domain.
Digitized by Madhuban Trust, Delhi
Prof. Pushpendra Kumar,
Professor of Sanskrit Deptt., Delhi
University, Delhi.
- First class first and gold medalist
in M.A. (Sanskrit), Delhi
University-1958. Shastri-Punjab
University. - Ph.D. on ‘Śakti Cult in the
Purana’s (Published) Delhi
University, 1967. - Common-Wealth Scholar and
Post Doctoral fellow, London
University-London 1970-72. - Visited many European countries
viz. France, Italy, Germany,
Austria, Holland, Switzerland
and Greece for higher studies. - Principal, Shri Lal Bahadur
Shastri Kendriya Sanskrit
Vidyapeetha, New Delhi,
1972-74.
-6. Fellow of Royal Asiatic Socity of
Great Britain and Ireland since - Author of fifteen books and more
than 50 articles. - General editor : Cultural Heritage
from the Purāṇas : (a ten volume
project of the ‘Purāṇa-Vidya
Series). - Chief Investigator - U.G.C.’s
Major Research project - ‘A
descriptive Catalogue of Sanskrit
Inscriptions.’ - Specialization in Purāṇas,
Tantras, Buddhism, Indian Art,
Sanskrit Literature, Epigraphy
and Grammar. - Organised ten All India Saminars
on very interesting and
fascinating topics and published
the proceedings.
CC-0. Shri Vipin Kumar Col. Deoband. In Public Domain.
Digitized by Madhuban Trust, Delhi
ALL MAHAPURANAS
Text with Shloka Index & Introduction
[Mahapurana] 450.00 | Vayu Mahapurana
ata Mahapurana- | 540 pp 400.00
2304 pp Set 1500.00 | Vishnudharmottara Mahapurana
ya Mahapurana | 1246 pp 900.00
1400 pp Set 1200.00 | Vishnu Mahapurana-with two
Mahapurana | commentaries
450.00 | 680 pp 500.00
agavata Mahapurana | Maha Bhagavat Devipurana Press
800.00 | Kalki Purana
Purana | 316pp 120.00
1993 450.00 | Vasuki Purana
Mahapurana | 260 pp 100.00
400.00 | Saura Purana
sha Purana | 290 pp 100.00
2vols set 900.00 | Narsimha Purana
Mahapurans | 380 pp 100.00
300.00 | Ekamara Purana
Mahapurana | 490 pp 150.00
400.00 | Ashtadasha purana Darpana
deya Mahapurana | Contents of 18 Puranas
450.00 | 432 pp 180.00
Mahapurana | PURANAS WITH TEXT,
600.00 | TRANS & NOTES IN
Mahapurana | ENGLISH VERSWISE
4vols set 1600.00 | Vishnu Purana – H.H. Wilson
ahapurana- | 1065 pp 2 vols Set 500.00
2vols set 900.00 | Matsya Purana – N.S. singh
ahapurana (Small Type) | 1252 pp 2 vols 500.00
400.00 | Narasimha Purana – Dr. S. Jena
Mahapurana | 1100 pp 400.00
8 vols set 4000.00 | Kalika Purana
Mahapurana-3vols | Prof. Biswanarayan Shastri
e) 1500.00 | (Shloka & Name Index)
Mahapurana | 3vols set 1992 900.00
400.00
NAG PUBLISHERS
11 A, U.A. Jawahar Nagar, Delhi-110007
CC-0. Shri Vipin Kumar Col. Deoband. In Public Domain.