तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 337, कुल 345 में से
संदर्भ में पढ़ें३०८ (१.८.७) तैत्तिरीयब्राह्मणम्
अ॒ध्व॒र्युर्होता॑ ब्र॒ह्मा । त उप॑तिष्ठन्ते । यान्ये॒व॒
य॒ज्ञस्यैन्द्रि॒याणि॑ । तैरे॒वास्मै॑ भेष॒जं क॑रोति (६) ।
प्रीणा॑ति प्रथ॒मो द॑क्षि॒णा स॒मव॑नयति धार॑यतीन्द्रि॒याणि॑ च॒त्वारि॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टकेऽष्टमाध्याये
षष्ठोऽनुवाकः ॥ ६ ॥
अथाष्टमप्रपाठके सप्तमोऽनुवाकः ।
अ॒ग्नि॒ष्टोम॑मग्रे॒ आहरति । य॒ज्ञमु॒खं वा अ॑ग्नि॒ष्टोमः॑ ।
य॒ज्ञमु॒खमे॒वाऽऽर॑भ्य॒ सम॑माक्र॑मते । अथै॑षोऽभि
षेच॒नीय॑श्चतुस्त्रि ँ शः प॑वमानो भवति । त्रय॑स्त्रि ँ शद्वै॒
दे॒वाः॑ । ता ए॒वाऽऽप्नो॑ति । प्र॒जाप॑तिश्चतुस्त्रि ँ शः ।
तमे॒वाऽऽप्नो॑ति । स ँ शर॑ एष स्तोमा॑ना॒मर्यथा पूर्वम् ।
यद्द्विष॑माः स्तोमा॑: (१) । ए॒तावा॒न्वै य॒ज्ञः ।
यावा॑न्पव॑मानाः। अन्तः॑ श्ले॒ष्णं त्वा अ॒न्यत् । यत्स॑माः
पव॑मानाः । तेनास ँ शरः॑ । तेन॑ यथापूर्वम् ।
आ॒त्मनै॒वाग्नि॒ष्टोमे॒नर्ध्नो॑ति । आ॒त्मना॑ पु॒ण्यो॑ भवति । प्र॒जा
वा उ॒क्थानि॑ । प॒शव उ॒क्थानि॑ । यदु॒क्थ्यो॑ भव॒त्यनु॑संतत्यै
(२) ।
स्तोमा॑: प॒शव॑ उ॒क्थान्येकं॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टकेऽष्टमाध्याये
सप्तमोऽनुवाकः ॥ ७ ॥
अथाष्टमप्रपाठकेऽष्टमोऽनुवाकः ।
उप॑ त्वा जा॒मयो॒ गिर॒ इति॑ प्रतिप॒द्भव॑ति । वाग्वै वायुः॑ ।
वाच॑ ए॒वैषो॑ऽभिषे॒कः । सर्वा॑सामे॒व प्र॒जाना ँ सू॑यते । सर्वा॑
एनं॑ प्र॒जा राजेति॑ वदन्ति । ए॒तमु॒त्यं द॑श॒क्षिप॒ इत्या॑ह ।
आ॒दि॒त्या वै प्र॒जाः । प्र॒जाना॑मे॒वैतेन॑ सूयते । यन्ति॒ वा