तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
प्रपाठकेऽग्न्याधानविधिरुच्यते । यद्यपि 'कृत्तिकास्व- ग्निमादधीत'
ॐ तत्सद्ब्रह्मणे नमः ।
कृष्णयजुर्वेदीयं
तैत्तिरीयब्राह्मणम्
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् ।
आदिमं काण्डम् ।
तत्र प्रथमप्रपाठके प्रथमोऽनुवाकः
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ १ ॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ २ ॥
तत्कटाक्षेण तद्रूपं दधद् बुक्कमहीपतिः ।
आदिशन्माधवाचार्यं वेदार्थस्य प्रकाशने ॥ ३ ॥
ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसंग्रहात् ।
कृपालुर्माधवाचार्यो वेदार्थं वक्तुमुद्यतः ॥ ४ ॥
व्याख्याता सुखबोधाय तैत्तिरीयकसंहिता ।
तद्ब्राह्मणं व्याकरिष्ये सुखेनार्थविबुद्धये ॥ ५ ॥
यद्यपि संहिताया 'इषे त्वोर्जे त्वा' इत्यादीनां
दर्शपूर्णमासमन्त्राणामादौ समाम्नातत्वात्तद् व्याख्यानरूपे ब्राह्मणे
पौरोडाशिककाण्डमादौ पठितव्यं तथाऽपि दर्शपूर्णमासयोराहवनी-
याद्यग्निसापेक्षत्वादग्नीनांचाऽऽधानसाध्यत्वात्प्रथम- काण्डस्याऽऽद्ये
प्रपाठकेऽग्न्याधानविधिरुच्यते । यद्यपि 'कृत्तिकास्व- ग्निमादधीत'
इत्ययमेवाऽऽधानब्राह्मणस्योपक्रमस्तथाऽपि संहितायां ग्रहकाण्डे
शुक्रामन्थिग्रहप्रचारार्थानां मन्त्राणामनुक्तत्वेनात्र वक्तव्यत्वात्तेषां
चाऽऽशासनीयफलप्रतिपादकत्वेन मङ्गलरूपत्वादाद्येऽनुवाके
तान्परिशिष्टान्मन्त्रानभिदधानोऽर्थान्मङ्गलाचरणं संपादयति-
ब्रह्म॒ संध॑त्तं॒ तन्मे॑ जिन्वतम् । क्ष॒त्र ँ संध॑त्तं॒ तन्मे॑ जिन्वतम् ।
इष॒ ँ संध॑त्तं॒ तां मे॑ जिन्वतम् । ऊर्ज॒ ँ संध॑त्तं॒ तां मे॑ जिन्वतम् ।
र॒यिं ँ संध॑त्तं॒ तां मे॑ जिन्वतम् । पुष्टि॒ ँ संध॑त्तं॒ तां मे॑
२ (१.१.१) तैत्तिरीयब्राह्मणम्
जिन्वतम् । प्र॒जा ᳪ संध॑त्तं॒ तां मै॑ जिन्वतम् । प॒शून्संध॑त्तं॒
तान्मै॑ जिन्वतम् ।
ब्रह्म संधत्तमित्यादिना । ब्रह्मशब्दो जगत्कारणे परमात्मनि
मुख्यतया-ऽवेदे प्रयुज्यते । तथा चैतरेयिणः स्वकीयोपनिषदि
समामनन्ति- ‘प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म’ इति तैत्तिरीयाश्च-‘सत्यं ज्ञानमनन्तं
ब्रह्म’ इति । वाजसनेयिनश्च-‘विज्ञानमानन्दं ब्रह्म’ इति । एवं सति
ब्रह्मशब्दस्य तत्प्रतिपादकवर्णमात्रपरत्वेऽपि परब्रह्मणः सहसा
बुद्धिस्थत्वादर्थान्मङ्गलाचरणं संपद्यते । तस्य ब्रह्मणः प्रतिपादकत्वेन
वेदोऽपि ब्रह्मशब्दस्यार्थः । ततो ग्रन्थादौ वेदपुरुषोऽप्यनुस्मृतो भवति ।
तादृशवेदाध्ययनाध्यापनयोर्मुख्या-धिकारसंपादिका ब्राह्मणजातिरपि
ब्रह्मशब्दस्यार्थः । सोऽयमत्र मन्त्रे विवक्षितः ।
उत्तरवाक्यगतक्षत्रशब्दसाहचर्यात् । एवं सत्यत्र
प्रतिपाद्यत्वेनाविवक्षितोऽपि परमात्मा सहसा प्रतीयमानो
विघ्नपरिहारादिरूपं माङ्गल्यं संपादयति । यथा ब्राह्मण-
भोजनार्थमानीयमानस्य दधिकुम्भस्य दर्शनेन ग्रामान्तरे जिगमिषूणां
माङ्गल्यं तद्वत् । तस्मादाद्यानुवाके ‘ब्रह्म संधत्तम्’ इत्यादि मन्त्राणामाम्नानं
युक्ततरम् । मन्त्रविनियोगं चाऽऽपस्तम्बो दर्शयति--‘अपरेणोत्तरवेदिं
ग्रहावरत्नी वा संधत्तः-ब्रह्म संधत्तं तन्मे जिन्वतं क्षत्रं संधत्तं तन्मे
जिन्वतमिरं संधत्तं तां मे जिन्वतमूर्जँ संधतं तां मे जिन्वतं रयिँ संधतं
तां मे जिन्वतं पुष्टिँ संधतं तां मे जिन्वतं प्रजँ संधत्तं तां मे जिन्वतं
पशून्संधतं तान्मे जिन्वतम् ” इति । अथाध्वर्युः शुक्रपात्रं प्रतिप्रस्थाता
मन्थिपात्रं चाऽऽदायोत्तरवेदेः पश्चाद्भागेऽवस्थाय परस्परसंसृष्टे कुरुतः ।
यद्वा स्वकीयावरत्नी परस्परसंसृष्टे कुरुतः । हे ग्रहौ युवां ब्रह्म
यजमानसबन्धिनीं ब्राह्मणजातिं संधत्तं स्वोचितधर्मराहित्यं यथा न भवति
तथा संपादयतम् । किंच मे तद्ब्रह्म मदीयां ब्राह्मणजातिं जिन्वतं
प्रीणयतम् । एवमग्रेऽपि सर्वत्र योज्यम् । क्षत्रं देशाधिपतिस्वामिगता
क्षत्रियजातिः। इडित्यन्नम् । ऊर्कक्षीरादिरसः। रयिर्धनम् । पुष्टिः
शरीरपोषः। प्रजा पुत्रपौत्रादिः । पशव गवादयः।
स्तु॒तोऽसि॑ जन॒धाः दे॒वास्त्वा शुक्र॒पाः प्रण॑यन्तु (१)
कल्पः--“स्तुतोऽसि जनधा देवास्त्वा शुक्रपाः प्रणयन्त्विति
शुक्रमध्वर्युरादत्ते” इति । पूर्वोक्तग्रहसंधानात्प्रागेवेदमूपादनम् ।
पाठक्रमादर्थक्रमस्य बलवत्त्वात् । हे शुक्रग्रह त्वमस्माभिः स्तुतोऽसि ।
तैत्तिरीयब्राह्मणम् (१.१.१) ३
हे जनधा जनानां धारयितः शुक्रग्रहा (पा ) ये देवाः शुक्रपात्रस्थस्य
सोमस्य पातारस्ते त्वां प्रकर्षेणाऽऽहवनीयसमीपे नयन्तु ।
सु॒वीराः॑ प्र॒जाः प्र॒जन॑यन्परी॑हि शु॒क्रः। शु॒क्रशो॑चिषा ।
कल्पः-“सुवीराः प्रजाः प्रजनयन्परीहि शुक्रः शुक्रशोचिषा, इति
दक्षिणेनाध्वर्युः प्रतिपद्यते ” इति । पात्रं हस्ते गृहीत्वा हविर्धानस्य पूर्वद्वारि
निर्गत्योत्तरवेदेर्दक्षिणेन मार्गेण पूर्वस्यां दिश्यध्वर्युर्गच्छति । हे शुक्रग्रह
शुक्रशोचिषा भास्वरदीप्त्या युक्तः सुवीराः शोभनवीरभृत्ययुक्ताः प्रजाः
पुत्रपौत्रादिकाः प्रजनयन्नुत्पादयन्नुत्तरवेदेः परितो गच्छ ।
स्तु॒तोऽसि॑ जन॒धाः । दे॒वास्त्वा॑ मन्थि॒पाः प्रण॑यन्तु ।
कल्पः-“स्तुतोऽसि जनधा देवास्त्वा मन्थिपाः प्रणयन्तु, इति
मन्थिनं प्रतिप्रस्थाता ” इति । आदत्त इत्यनुवर्तते । हे मन्थिग्रह
त्वमस्माभिः स्तुतोऽसि । हे जनधा जनानां धारयितर्मन्थिपात्रस्थस्य
सोमस्य पातारो ये देवास्ते त्वां प्रकर्षेणाऽऽहवनीयसमीपे नयन्तु ।
सु॒प्र॒जाः प्र॒जाः प्र॒जन॑यन्परी॑ हि । म॒न्थी म॒न्थिशो॑चिषा ।
कल्पः-“सुप्रजाः प्रजाः प्रजनयन्परीहि मन्थी मन्थिशोचिषा ,
इत्युत्तरेण प्रतिप्रस्थाता ” इति । प्रतिपद्यत इत्यनुवर्तते । हे ग्रह त्वं मन्थी
मन्थिनामको ग्रहो भूत्वा मन्थिशोचिषा मन्थ्याख्यस्य तव तेजसा युक्तः
सुप्रजाः शोभनापत्योपेताः प्रजा भ्रातृबन्ध्वादिकाः ।
प्रजनयन्नुत्पादयन्परीहि, उत्तरवेदेरुत्तरभागे परीत्य पूर्वस्यां दिशि गच्छ ।
सं॒ज॒ग्मा॒नौ दिव॒ आ पृ॑थि॒व्याऽऽयु॑ः। संध॑त्तं॒ तन्मै॑
जिन्वतम् । प्रा॒णं *संध॑त्तं॒ तं मै॑ जिन्वतम् । अ॒पान *संध॑त्त॒
तं मै॑ जिन्वतम् (२) व्या॒न *संध॑त्तं॒ तं मै॑ जिन्वतम् । चक्षु॑ः
संध॑त्तं॒ तन्मै॑ जिन्वतम् । श्रोत्रं॑ * संध॑त्तं॒ तन्मै॑ जिन्वतम् ।
मनः॒ संध॑त्तं॒ तन्मै॑ जिन्वतम् । वाचं॒ *संध॑त्तं॒ तां मै॑
जिन्वतम् ।
कल्पः-“अग्रेणोत्तरवेदिं ग्रहावरत्नी वा संघत्तः- संजग्मानौ दिव
आ पृथिव्याऽऽयुः संघत्तं तन्मे जिन्वतं प्राण *संधत्तं तं मे जिन्वतमपान *
संघत्तं तं मे जिन्वतं व्यान *संधत्तं तं मे जिन्वतं चक्षुः संघत्तं तन्मे जिन्वतं
श्रोत्रँ संधत्तं तन्मे जिन्वतं मनः संधत्तं तन्मे जिन्वतं वाचँ संधत्तं तां मे
जिन्वतम्, इति । हे शुक्रामन्थिनौ युवां संजग्मानौ परस्परं संगतावेकमत्यं
गता वा दिवो द्युलोकसहितया पृथिव्या च संगतावस्मदीयमायुः संधत्तं
सम्यग्धारयतमभिवर्धयतमित्यर्थः । प्राण ऊर्ध्वगामी वायुः ।
अपानोऽधोगामी वायुः। व्यानो मध्यवायुः चक्षुः श्रोत्रे मनो
वाक्चैत्येतानीन्द्रियाणि । एतेषु सर्वेषु पूर्ववद्व्याख्येयम् । ब्रह्म
संधत्तमित्यत्रोत्तरवेदेः पश्चात्संधानम् । इह तु पुरस्तादिति विशेषः।
आयु॑ः स्थ॒ आयु॑र्मे धत्तम् । आयु॒र्य॒ज्ञाय॑ धत्तम् ।
आयु॑र्य॒ज्ञप॑तये धत्तम् । प्रा॒णः स्थ॑: प्रा॒णं मे॑ धत्तम् । प्रा॒णं
य॒ज्ञा ' धत्तम् (३) प्रा॒णं य॒ज्ञप॑तये धत्तम् । चक्षु॑: स्थ॒श्चक्षु॑र्मे
धत्तम् । चक्षु॑र्य॒ज्ञाय॑ धत्तम् । चक्षु॑र्य॒ज्ञप॑तये धत्तम् । श्रोत्रँ॑ ̐
स्थः श्रोत्रं॑ मे धत्तम् । श्रोत्रं॑ य॒ज्ञाय॑ धत्तम् । श्रोत्रं॑ य॒ज्ञप॑तये
धत्तम् । तौ दे॑वौ शुक्रामन्थिनौ । क॒ल्पय॑तं॒ दैवी॑र्विश॑:
कल्प- य॑तं॒ मानु॑षीः (४) इष॒मूर्ज॑म॒स्मासु॑ धत्तम् ।
प्रा॒णान्प॒शुषु॑ । प्र॒जां मयि॑ च॒ यज॑माने च ।
कल्पः-“अथेनावध्वर्यु॑रभिमन्त्रयते-आयुःस्थ आयुर्मे
धत्तमायुर्यज्ञाय धत्तमायुर्यज्ञपतये धत्तं प्राणः स्थः प्राणं मे धत्तं प्राणं यज्ञाय
धत्तं प्राणं यज्ञपतये धत्तं चक्षुः स्थश्चक्षुर्मे धत्तं चक्षुर्यज्ञाय धत्तं चक्षुर्यज्ञपतये
धत्तं श्रोत्र ̐ स्थः श्रोत्रं मे धत्तं श्रोत्रं यज्ञाय धत्तं श्रोत्रं यज्ञपतये धत्तं तौ
देवौ शुक्रामन्थिनौ कल्पयतं दैवीर्विशः कल्पयतं मानुषीरिषमूर्जमस्मासु
धत्तं प्राणान्पशुषु प्रजां मयि च यजमाने च” इति । हे शुक्रामन्थिनौ
युवामायुःस्थ आयुषः स्वामिनौ भवथः । अतो मे
ममाध्वर्योरायर्धत्तमभिवर्धयतम् । तथा यज्ञस्याप्यायुर्धत्तम् । समाप्तिरेव
यज्ञस्याऽऽयुः । तथा यज्ञपतये यजमानस्याप्यायुरभिवर्धयतम् । एवं
प्राणादिषु योज्यम् । तौ युवां प्राणादिस्वामिनौ शुक्रामन्थिनौ
ग्रहद्वयाधिपती दैवी दैवीर्विशो देवसम्बन्धिनीः प्रजाः
कल्पयतमस्मदनुकूलाः कुरुतम । तथा मनुष्यजातियुक्ताः
प्रजाश्चास्मदनुकूलाः कुरुतम । किंचैतं व्रीह्याद्यन्नमूर्जं क्षीरादिरसं चास्मासु
स्थापयतम् । पशुषु गवादिषु चिरजीवनहेतून्प्राणान्स्थापयतम् ।
मय्यध्वर्यौ चास्मिन्यजमाने च प्रजां पुत्रपौत्रादिरूपां स्थापयतम् ।
निर॑स्तः॒ शण्ड॑: निर॑स्तो॒ मर्क॑: ।