तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
द्वितीयोऽनुवाकः ॥ २ ॥
तैत्तिरीयब्राह्मणम् (१.१.२) ११
यदु॒त्तरे॑ फल्गु॒नी । मुख॒त ए॒वं सं॑वत्स॒रस्या॒ग्निमा॒धाय॑ ।
वसी॑यान्भवति, इति ।
फाल्गुनमासे येयं पूर्णिमा तत्र प्राप्तं यत्पूर्वफल्गुनीनक्षत्रं तद्युक्ता
रात्रिः पूर्वसंवत्सरस्य समाप्तिस्थानीया । अतस्तत्राऽऽ दधानः संवत्सरस्य
पृष्टितः पृष्ठभागेऽनुष्ठानाद्दरिद्रो भवति । उत्तरफल्गुनीनक्षत्रे
भाविसंवत्सरादित्वात्तन्नाऽऽदधानः संवत्सरप्रारम्भ एवाऽऽधायात्यन्त-
धनिको भवति ।
पक्षान्तरं विधत्ते-
अथो॒ खलु॑ । यदे॒वैनं॑ य॒ज्ञ 'उपनमे॑त् । अथाऽऽद॑धीत ।
सैवा॒स्यर्धि॑ : (९), इति ।
खल्वधित्सन्त फल्गु॒न्योर॑ग्निमाद॑धीतासन्नपततामृतूनां वैश्य-
स्यु॒र्तुरुत्त॑रे फल्गु॒नी षट् च॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्रपाठके
द्वितीयोऽनुवाकः ॥ २ ॥
अन्येऽभिज्ञा एवमाहुः खलु यस्मिन्नेव काल एनं पुरुषं सोमयज्ञः
प्राप्नुयात्सोमयागं करिष्याम्यहमिति बुद्धिरुदियात्तदानीमेवाऽऽदधीत । न
तु नक्षत्रादिकं परीक्षितव्यम् । सैव सोमयागबुद्धिरेवास्य पुरुषस्य
नक्षत्रादिकृत्स्नविहितकालसमृद्धिः । अत एव सूत्रकारेणोक्तम्-“सोमेन
यक्ष्यमाणो नर्तुं सूर्क्षेन नक्षत्रम्” इति । अत्र मीमांसा । तृतीयाध्यायस्य
षष्ठपादं चिन्तितम्-
आधानं किं प्रकृत्यर्थं वह्निमात्रेण वा युतम् ।
संस्कृताग्निप्रनाड्यैतत्पर्णवत्प्रकृतौ स्थितम् ॥
लौकिकाकारमात्रत्वे विफलत्वात्क्रतौ युतिः ।
पर्णस्याऽऽहवनीयादौ शास्त्रीयेऽस्तु स्वतन्त्रता ॥
अनारभ्याधीतं पर्णमयीत्वं यथा जुहूप्रना(णा)ड्या प्रकृतौ निविष्टं
तथैवाग्निप्रना (णा)ड्या तत्संस्काररूपमाधानं प्रकृतौ निविशत इति
चेत् । मैवम् । वैषम्यात् । द्विविधो हि जुह्वा आकारः । लौकिकः
शास्त्रीयश्च । अरत्निमात्रदैर्ध्यहंसमुखत्वावाग्विलत्वादिरूपो दृश्यमानो
लौकिकः । अपूर्वीयत्वाकारस्तु शास्त्रीयः । तयोरपूर्वीयत्वं
१२ (१.१.२) तैत्तिरीयब्राह्मणम्
क्रतुप्रवेशमन्तरेण नास्ति । तच्च यदि लौकिकाकारमात्रं पर्यवस्येत्तदा
पर्णमयीत्वं विफलं भवेत् । काष्ठान्तरेणापि तदाकारस्य सुसंपादकत्वात् ।
अतोऽपूर्वीयत्वाय पर्णता क्रतौ प्रविष्टा । आहवनीयादीनां त्वेक एव
शास्त्रीयाकारः । स च विधिबलादाधानेनैव जन्यते नान्यथा ।
तस्मादाधानस्य क्रतुप्रवेशं विनैव शास्त्रीयाहवनीयाद्याकार-
संपादनसमर्थत्वादग्निमात्रेण तत्संयुज्यते । तथा सति
पर्णवैषम्यात्क्रतावप्रविश्याग्नीनुत्पाद्य क्रतुर्वत्स्वा- तन्त्र्येणावतिष्ठते ।
ततो लौकिकोपायसंपादितसुवर्णव्रीह्यादिवदा- धानसंपादितानां
स्वतन्त्राणामेवाऽऽहवनीयाद्यग्नीनां पश्चाद्वाक्यैः क्रतुषु विनियोगोऽस्तु ।
तत्रैवान्यच्चिन्तितम्-
आधानं पवमानादरिष्टेरङ्गं न वा भवेत् ।
अग्नीनामिष्टिशेषत्वात्तद् द्वाराऽस्य तदङ्गता ॥
अनारभ्य विधानात्तु नाङ्गं कस्यचिदाहितिः ।
अग्न्यर्थत्वात्तसमेष्टिरग्नयस्त्वग्निहोत्रगाः ॥
इदमाम्नायते-“अग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपेदग्नये
पावकायाग्नये शुचये ” इति । “वसन्त ब्राह्मणोऽग्निमादधीत ” इति
च । तत्राऽऽधानं पवमानादीनामिष्टीनामङ्गं भवेत् । कुतः ।
दर्शपूर्णमासविकृतिषु पवमानादीष्टिषु चोदकप्राप्तानामाहवनीयाद्यग्नीना-
मिष्ट्यङ्गत्वे सत्यग्निद्वारा तत्संस्काररूपस्याऽऽधानस्यापि तदङ्गताया
अनिवार्यत्वादिति चेत् । मैवम् । न ह्येतदाधानं कस्यचित्क्रतोः प्रकरणे
पठितं किंत्वनारभ्याधीतम् । अतो न कस्याप्यङ्गम् ।
किंवाधानवदिष्टीनामप्यग्निसंस्कारार्थत्वात्परस्परं नास्त्यङ्गाङ्गि-
भावशङ्का । ननु पवमानेष्ट्यङ्गत्वभावाऽग्निसंस्कार वैयर्थ्यादग्निद्वारा
तदङ्गत्वं युक्तमिति चेत् । न संस्कृतानामग्नीनामग्निहोत्राद्युत्तरक्रतुषु
तत्तद्वाक्यैर्विनियोगावगमात् । तस्मान्नाऽऽधानमङ्गम् । द्वितीयाध्यायस्य
तृतीयपादे चिन्तितम्-
वसन्ते विप्र आदध्यात्तत्रैवोपनयीत् तम् ।
अनुवादः प्रापणं वाऽनुवादः कालसिद्धये ॥
अन्तरेणाग्निविद्याभ्यां कर्मानुष्ठित्यसंभवात् ।
क्लृप्ते आधानोपनेती प्राप्ता विप्रादयस्ततः ।