तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 244, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.४.१०) २१५
सहस्रदक्षि णायुक्तेनाऽऽगोर्यामादिना यजमानः सहस्रयाजी स एकः
श्रुतिस्मृत्युदितगार्हस्थ्यस्यानुष्ठायी गृहमेधी । एते गृहपत्यादयो मनुष्येषु
श्रेष्ठाः । अग्निर्दैवतात्मा गौर्गवाभिमानिदेवविशेषः । यस्मिन्दिने
वैश्वदेवेन यजते तस्मिन्नेवदिने गृहपतिः सहस्रयाजी गृहमेधी
वह्निगवाख्यदेवानां महिम्ना योग्यो भवति । येयं फलक्लृप्तिरुक्तैष्वैव
वैश्वदेवपर्वणो मात्रा । इयदेव फलमित्यर्थः । एतच्च
वैश्वदेवफलमेतेषामितरपर्वफलानां मध्येऽवमेमत्यल्पम् । अतोऽत
एकैकस्मात्पर्वफलादुत्तरोत्तरपर्वफलान्यत्यन्तं प्रशस्तानि । यस्माद्विश्वे
देवा एतत्पर्व सम्यगनुष्ठितवन्तस्तस्मादस्य वैश्वदेवत्वं संपन्नम् ।
द्वितीयं पर्व प्रशंसति-
अथा॑ऽऽदि॒त्यो वरु॑णँ॒ राजा॑नं वरुणप्रघा॒सैरे॑यजत । स ए॒तं
लो॒कम॑जयत् । यस्मि॑न्नादि॒त्यः । यद्व॑रुणप्रघा॒सैर्यज॑ते ।
ए॒तमे॒व लो॒कं ज॑यति । यस्मि॑न्नादि॒त्यः । आ॒दि॒त्यस्यै॑व
सायु॑ज्य॒मुपै॑ति । यदादि॒त्यो वरु॑ण॒ ँ राजा॑नां
वरुणप्रघा॒सैर्यज॑त । तद्व॑रुणप्रघासानां वरुणप्रघास॒त्वम्
इति ।
प्रकृष्टो घासो भक्ष्यविशेषो मेषसंबन्धी येषु हविर्विशेषेषु ते
प्रघासाः । ते च वरुणसंबन्धिनः । वरुणपाशविमोकार्थ-
मनुष्ठीयमानत्वात् । तथा च राजसूयप्रकरणे समाम्नायते-“तैर्यैवै स प्रजा
वरुणपाशादमुञ्चत” इति । तैरेतैर्वरुणप्रघासैरादित्यो वरुणं
राजानमिष्ट्वा यस्मिन्निदानीमादित्यो दृश्यते तमेतं लोकमजयत् ।
अतोऽन्योऽपि तं लोकं जित्वाऽऽदित्यस्य सायुज्यमप्नोति ।
वरुणमुद्दिश्येज्यमानत्वादेते वरुणप्रघासनामका हविर्विशेषाः संपन्नाः।
तृतीयं पर्व प्रशंसति-
अथ॒ सोमो॒ राजा॒ छन्दाँ॑सि साकमे॒धैर॑यजत (६) । स
ए॒तं लो॒कम॑जयत् । यस्मिँ॑श्च॒न्द्रमा॑वि॒भाति॑ ।
यत्सा॑कमे॒धैर्यज॑ते । ए॒तमे॒व लो॒कं ज॑यति । यस्मिँ॑श्च॒न्द्रमा॑
वि॒भाति॑ । च॒न्द्रम॑स ए॒व सायु॑ज्य॒मुपै॑ति । सोमो॒ वै
च॒न्द्रमा॑: । ए॒ष ह॒ त्वै सा॒क्षात्सोमं॑ भक्षयति । स ए॒वं