तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 245, कुल 345 में से
संदर्भ में पढ़ें२१६ (१.४.१०) तैत्तिरीयब्राह्मणम्
वि॒द्वान्त्सा॑कमे॒धैर्यज॑ते । यत्सोम॑श्च॒ राजा॒ छन्दाँ॑सि च॒
स॒मैध॑न्त (७) । तत्सा॑कमे॒धानाँ॑ ॅसाकमेध॒त्वम्, इति ।
सोमो राजा साकमेधाख्यैर्हविर्भिश्छन्दोदेवान्पूजयित्वा यस्मिन्नयं
चन्द्रमा विशेषेण भासते तमेतं लोकमजयत् । एवमन्योऽपीतं लोकं जित्वा
चन्द्रमसःसायुज्यं प्राप्नोति । एष यज्ञेऽप्यभिषूयमाणः सोम एव चन्द्रमाः ।
चन्द्रमस एतदभिमानित्वादतश्चन्द्रप्रसादेन कालव्यवधानमन्तरेण
साकमेधयाजी यागं कृत्वा सोमं भक्षयति । यस्मादस्मिन्यज्ञे
पूज्यपूजकभावेनच्छन्दोदेवताः सोमश्च समैधन्त संभूय वृद्धिं
प्राप्तास्तस्मात्साकमेधन्ते वर्धन्त एभिर्हविर्विशेषैरिति तेषां साकमेधनाम
संपन्नम् ।
पितृयज्ञं प्रशंसति-
अथ॒र्तव॑: पि॒तर॑: प्र॒जाप॑तिं पि॒तरं॑ पितृय॒ज्ञेना॑यजन्त । त
ए॒तं लो॒कम॑जयन् । यस्मि॑न्नृ॒तव॑: । यत्पि॑तृय॒ज्ञेन॒ यज॑ते ।
ए॒तमे॒व लो॒कं ज॑यति । यस्मि॑न्नृ॒तव॑: । ऋ॒तूनामे॒व
सायु॑ज्यमुपै॑ति । यदृतव॑: । पि॒तर॑: प्र॒जाप॑तिं पि॒तरं॑
पितृय॒ज्ञेनार्य॑जन्त । तत्पि॑तृय॒ज्ञस्य॑ पितृ यज्ञ॒त्वम् (८) इति ।
वसन्ताद्यृतुदेवताः प्राणिनां पितरः । प्राण्युत्पत्तेःकालाधीनत्वात् ।
तेषामृतूनां पिता प्रजापतिः । तथा च ऋतवः प्रजापतिं स्वपितरं पितृयज्ञेन
पूजयित्वा यस्मिन्निदानीं वसन्तादयो देवा वर्तन्ते तं लोकमजयन् ।
एवमन्योऽपितं लोकं जित्वा वसन्तादीनां सायुज्यं प्राप्नोति । ऋत्वात्मकाः
पितरो यजन्त्यनेनेत्ययं पितृयज्ञः । अथवा प्रजापत्यात्मकः ।
पितेज्यतेऽनेनेति पितृयज्ञः। पितृकर्तृकत्वेन पितृकर्मकत्वेन वा पितृसंबन्धी
यज्ञ इत्यर्थः ।
त्र्यम्बकहवींषि प्रशंसति-
अथौष॑धय इ॒मं दे॒वं त्र्य॑म्बकै॒रय॑जन्त॒ प्रथै॑महीति॑ । ततो॒ वै
ता अप्र॑थन्त । य ए॒वं वि॒द्वाँस्त्र्य॑म्बकै॒र्यज॑ते । प्रथ॑ते प्र॒जया॑
प॒शुभि॑:, इति ।
ओषधीदेवता वयं प्रथेमहि विस्तृता भवेमेत्यभिप्रेत्य त्र्यम्
बकहविर्भिरिमं रुद्रं देवमिष्ट्वा प्रथिता अभवन् । एवमन्योऽपि तमिष्ट्वा