सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 243, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 243

२१४ (१.४.१०) तैत्तिरीयब्राह्मणम्
पर्वचतुष्टयसंघात्मकं चातुर्मास्ययागं प्रशंसति-
सं॒व॒त्स॒रं वा ए॒ष ई॑प्स॒तीत्या॑हुः। यश्चातु॑र्मा॒स्यैर्यज॑त॒ इति॑ ।
ए॒ष ह॒ त्वै सं॑वत्स॒रमा॑प्नोति । य ए॒वं वि॒द्वा ँ
श्चातु॑र्मा॒स्यैर्यज॑ते, इति ।
यः पुमान्पर्वचतुष्टयोपेतैश्चातुर्मास्यैर्यजते स एष संवत्सराभिमानिनं
प्रजापतिं प्राप्तुमिच्छतीत्येवमभिज्ञा आहुः । तस्मात्तद्याजी
संवत्सराभिमानित्वं प्राप्नोति ।
अथ वैश्वदेवाख्यं कर्म प्रशंसति-
विश्‍वे॑ दे॒वाः सम॑जयन्त । तैऽग्निमे॒वार्य॑जन्त । त ए॒तं
लो॒कम॑जयन् (३)। यस्मि॑न्न॒ग्निः. यद्वै॑श्‍वदे॒वेन॒ यज॑ते ।
ए॒तमे॒व लो॒कं जय॑ति । यस्मि॑न्न॒ग्निः . अ॒ग्नेरे॒व
सायु॑ज्य॒मुपै॑ति, इति ।
विश्वे देवा इति देवगणविशेषाः । तद्गणस्था देवा यदा
सम्यग्यष्टुमुपक्रान्तवन्तस्तदानीमग्निमेवेष्ट्वा यस्मिल्लोकेऽग्निर्वर्तत एतमेव
लोकं ते प्राप्नुवन् । अतोऽन्योऽपि विश्वेदेवेनेष्ट्वा यस्मिन्नग्निर्वर्तत तं लोकं
प्राप्य तस्याग्नेः सायुज्यं सहावस्थानमेव प्राप्नोति ।
पुनरपि वैश्वदेवं प्रकारान्तरेण प्रशंसति-
य॒दा वै॑श्वदे॒वेन॒ यज॑ते । अथ॑ संवत्स॒रस्य॑
गृ॒हप॑तिमाप्नोति । य॒दा सं॑वत्स॒रस्य॑ गृ॒हप॑तिमा॒प्नोति॑ । अथ॑
स॒हस्र॑या॒जिन॑माप्नोति । य॒दा स॑हस्रया॒जिन॑मा॒प्नोति॑ (४)।
अथ॑ गृ॒हमे॒धिन॑माप्नोति । य॒दा गृ॒हमे॒धिन॑मा॒प्नोति॑ ।
अथ॒ग्निर्भ॑वति । य॒दाऽग्निर्भव॑ति । अथ॒ गौर्भवति । ए॒षां
वै वै॑श्वदे॒वस्य॑ मात्रा॑ । ए॒तद्द्वा ए॒तेषा॒मव॑मम् । अतौऽतो॒
वा उ॑त्त॒राणि॒ श्रेयां॑सि भवन्ति ।। यद्विश्वे॑ दे॒वाः
स॒म॑र्यजन्त । तद्वै॑श्वदे॒वस्य॑ वैश्वदेव॒त्वम् (५), इति ।
संवत्सराख्यस्य सत्रस्य गवामयनस्य यजमानेषु मुख्यो गृहपतिः