सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 242, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 242

तैत्तिरीयब्राह्मणम् (१.४.१०) २१३
सूक्तवाके हि भूयो हविष्करणमाशास्ते, दिव्यं धामाऽऽशास्त इति
वाक्यद्वयं पठितम् । तयोर्वाक्ययोर्मध्ये संवत्सरीणामिति वाक्यं पठेत् ।
अत एव सूत्रकार उदाहृत्य पठति-“ संवत्सरीणा ँस्वस्तिमाशास्ते दिव्यं
धामाऽऽशास्त इति सूक्तवाकस्याऽऽशीःषु होताऽनुवर्तयते ” इति ।
अथ द्वितीयतृतीयपर्वणोः परिवत्सरेदावत्सररूपादित्यचन्द्रमसोः
प्राप्तिप्रतिपादनपुरःसरं क्रमेण मन्त्रविशेषं विधत्ते-
यद्व॑रुणप्रघा॒सैर्यज॑ते । आ॒दि॒त्यमे॒व तत्परि॑वत्स॒रमा॑प्नोति
(१) । तस्मा॑द्वरुणप्रघा॒सैर्यज॑मानः । प॒रि॒व॒त्स॒रीणा ँ॑
स्व॒स्तिमाशा॑स्त॒ इत्याशा॑सीत । यत्सा॑कमे॒धैर्यज॑ते ।
च॒न्द्रम॑समे॒व तदि॑दावत्स॒रमा॑प्नोति
तस्मा॑त्साकमे॒धैर्यज॑मानः इ॒दा॒व॒त्स॒रीणा ँ॑ स्व॒स्तिमाशा॑स्त॒
इत्याशा॑सीत, इति ।
इत्थ चातुर्मास्यावयवरूपाणि वैश्वदेवादीनि त्रीणि पर्वाणि
तदीयमन्त्रविशेषांश्च विधाय तदवयवरूपं महापितृयज्ञं विधत्ते-
यत्पि॑तृय॒ज्ञेन॒ यज॑ते । दे॒वाने॒व तद॒न्व॑वस्यति, इति ।
तत्तेन पितृयज्ञेन पितृमद्विशेषणयुक्तसोमादीन्देवानन्ववस्यत्यनुक्रमेण
प्रीणयति ।
अथ चतुर्थपर्वण्यनुवत्सररूपवायुप्राप्तिप्रतिपादनपरः सरं मन्त्रविशेषं
विधत्ते-
अथ॑ वा अ॑स्य वा॒युश्चा॑नुवत्स॒रश्चाप्री॑ता॒वुच्छि॑ष्येते ।
यच्छु॑नासीरीये॑ण॒ यज॑ते (२) । वा॒युमे॒व
तद॑नुवत्स॒रमा॑प्नोति । तस्मा॑च्छुनासीरीये॑ण॒ यज॑मानः
अ॒नु॒व॒त्स॒रीणा ँस्व॒स्तिमाशा॑स्त॒ इत्याशा॑सीत, इति ।
वैश्वदेवादिभिस्त्रिभिः पर्वभिःसंवत्सरादयस्तथा कालास्तदभि-
मानिदेवा अग्न्यादयः प्रीता अनुवत्सरः कालस्तदभिमानी वायुश्चेत्येतावुभौ
पूर्वमप्रीताववशिष्टौ । शुनासीरीयाख्येन (ण) चतुर्थेन पर्वणा
तदुभयप्रीतिर्भवति । तस्माच्छुनासीरीयेण यजमानोऽवत्सरीणाँ
स्वस्तिमाशास्त इत्याशासीतेति पूर्ववद्व्याख्येयम्