तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 238, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.४.९) २०९
अनु॑ रयी॒णां ब्रह्म॑णा स्व॒स्त्यय॑नीः सु॒दुघा॒ हि घृ॒तश्चु॑त॒ ऋषि॑भिः॒
संभृ॑तो॒ रसः॑ पुनातु॒ त्रीणि॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
चतुर्थाध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥
इन्द्रः सुनीत्या शोभनफलप्रापिकया देव्या सह मां पुनातु । सोमः
स्वस्त्या क्षेमप्रापिकया देव्या सह मां पुनातु । वरुणः समीच्याऽनुकूलया
देव्या सह मां पुनातु । यमो राजा प्रमृणाभिः प्रकर्षेण मारिकाभिर्देवीभिः
सह मां पुनातु । जातवेदा ऊर्जयन्त्या क्षीरादिरसप्रापिकया देव्या सह मां
पुनातु ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीये तैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
चतुर्थप्रपाठकेऽष्टमोऽनुवाकः॥ ८ ॥
अथ चतुर्थप्रपाठके नवमोऽनुवाकः ।
अष्टमे शुद्धयर्था मन्त्रा उक्ताः । तावता सोमशेषमशेषमवस्थाप्य
नवमे राजसूयगतचातुर्मास्यशेष उच्यते । तानि चातुर्मास्यानि
विधातुमादावाख्यायिकामाह-
प्र॒जा वै स॒त्रमा॑सत॒ तप॑स्तप्य॑माना॒ अजु॑ह्वतीः । दे॒वा
अप॑श्य॒ं च॒म॒सं घृ॒तस्य॑ पूर्णं॑ ̐ स्व॒धाम् ।
तमुपोद॑तिष्ठ॒न्तम॑जुहवुः । तेना॑र्धमा॒स ऊर्ज॒म वा॑रुन्धत ।
तस्मा॑दर्धमा॒से दे॒वा ई॑ज्यन्ते, इति ।
पुरा काचिद्देवपितृमनुष्यपश्वसुराख्याः प्रजाः सत्रमन्वतिष्ठन् ।
सत्रसदृशं सुकृतं संपादितवन्त (त्य) इत्यर्थः ।। किं कुर्वत्यः ।
उपवासादिरूपं तपोऽनुतिष्ठन्त्योऽजुह्वतिर्न कंचिदपि होमं कुर्वत्यस्तासां
प्रजानां मध्ये देवाः कंचित्कालं तपस्तप्त्वा घृतपूरितं स्वोचितान्नधारकं
कंचिच्चमसं दृष्ट्वा तं प्राप्य समीप उत्थाय हुत्वा तद् -
धोमनेकै कस्मिन्नर्धमासे स्वभोज्यं रसविशेषं प्राप्तवन्तः ।
तस्मात्कारणादर्धमासे पौर्णमास्याममावास्यायां च देवा
दर्शपूर्णमासाभ्यामिज्यन्ते ।
अथ तदेव पित्रादीनां तपःफलं दर्शयति -
. पि॒तरो॑ऽपश्यं च॒म॒सं घृ॒तस्य॑ पूर्णं॑ ̐ स्व॒धाम् ।