सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 239, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 239

२१० (१.४.९) तैत्तिरीयब्राह्मणम्
तमु॒पोद॑तिष्ठन्त॒र्मजु॑हवुः । तेन॑ मा॒स्यूर्ज॒मवा॑रुन्धत ।
तस्मा॑न्मा॒सि पि॒तृभ्य॑: क्रियते । म॒नु॒ष्या॑ अपश्यं च॒मसं
घृ॒तस्य॑ पू॒र्ण ँस्व॒धाम् (१) । तमु॒पोंद॑तिष्ठन्त॒र्मजु॑हवुः । तेन॑
द्वयीमूर्ज॒मवा॑रुन्धत । तस्मा॒द् द्विरह्नो॑ मनु॒ष्ये॑भ्य॒ उप॑ह्रियते ।
प्रा॒तश्च॑ सा॒यं च॑ । प॒शवौ॑ऽपश्यं च॒मस घृतस्य॑ पू॒र्ण ँ
स्व॒धाम् । तमु॒पोद॑तिष्ठन्त॒मजु॑हुवुः । तेन॑
त्र॒यीमूर्ज॒मवा॑रुन्धत । तस्मा॒त्त्रिरह्न॑: प॒शव॑: प्रेर॑ते । प्रा॒तः
संङ्गवे सा॒यम् । असु॑रा अपश्यं च॒मसं घृ॒तस्य॑ पू॒र्ण ँ
स्व॒धाम् । (२) ।
तमुपोद॑तिष्ठन्तर्मजुहवुः । तेनं संवत्स॒र ऊर्ज॒मवा॑रुन्धत,
इति ।
पितृभिरेकस्मिन्मासे स्वभोज्यान्नस्य प्राप्तत्वात्प्रतिमासममावास्यायां
पिण्डपितृयज्ञः क्रियते । मनुष्यैकस्मिन्नेवाह्नि कालद्वयवर्तिनो भोज्यस्य
प्राप्तत्वात्प्रातःकाले सायंकाले भुज्यते । पश्वभिमानिभिर्देवैरे-
कस्मिन्नेवाह्नि कालत्रय भोज्यस्यान्नस्य प्राप्तत्वात्त्रिषु कालेषु
पशवस्तुणभक्षणार्थं संचरन्ति । तत्तन्मध्यकाले तु रोमन्थं कुर्वन्तो वर्तन्ते ।
असुरास्त्वेकस्मिन्संवत्सरे स्वभोज्यमन्नं प्राप्तवन्तः ।
अथ देवैरनुष्ठितं व्यापारं दर्शयति -
ते दे॒वा अ॑मन्यन्त । अ॒मी वा इ॒दम॑भूवन् । यद्व॒य ँस्म॒
इति॑ । त ए॒तानि॑ चातुर्मा॒स्या॒न्य॑पश्यन् । ता॒नि निर॑वपन् ।
तैरे॑वैषां॒ तामूर्ज॒मवृ॑ञ्जत । ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः
(३), इति ।
ते देवा मिलित्वैवं विचारितवन्तो यदैश्वर्यं वयमिदानीं प्राप्य
वर्तामहे तदिदं सर्वममी असुरा एव प्राप्तवन्तः ।
तस्मात्संवत्सरेसकृद्भुक्त्वा तृप्ताः सन्तः पुनः संवत्सरसमाप्तिपर्यन्तं
स्वभोजनव्यापाराभावान्निरन्तरं युध्यन्तोऽस्मान्क्लेशयिष्यन्ति । एवं विचार्य
ते देवा असुरविनाशहेतुत्वेनैतानि वक्ष्यमाणानि वैश्वदेवादीनि