सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 237, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 237

२०८ (१.४.८) तैत्तिरीयब्राह्मणम्
पा॒व॒मा॒नीर्दिश॑न्तु नः। इ॒मं लो॒कमथो॑अ॒मुम्।
का॒मान्त्स॒मर्ध॑यन्तु नः। दे॒वीर्दे॒वैः स॒माभृ॑ताः, इति।
देवैरिन्द्रादिभिः समाभृताः संपादिताः पावमानीर्देवीः
पवमानमन्त्राभिमानिन्यो देव्यो नोऽस्माकं लोकद्वयं दिशन्तु प्रयच्छन्तु।
तत्रत्यान्कामान्नोऽस्मदर्थं समृद्धान्कुर्वन्तु।
अथ चतुर्दशीमाह-
पा॒व॒मा॒नीः स्व॒स्त्यय॑नीः। सु॒दुघा॒ हि घृ॒तश्चुतः॑। ऋर्षि॑भिः
संभृ॑तो॒ रसः॑ (५)। ब्राह्म॒णेष्व॒मृतं॒ ॅहि॑तम्। इति।
घृतं श्रोतन्ति क्षारयन्तीति घृतश्चुतः। अन्यत्पूर्ववत्॥
अथ पञ्चदशीमाह-
येन॑ दे॒वाः प॒वित्रे॑ण। आ॒त्मानं॑ पुन॒ते सदा॑। तेन॑
स॒हस्र॑धारेण। पा॒व॒मा॒न्यः पु॑नन्तु मा, इति।
देवा इन्द्राद्या येन पवित्रेण शुद्धिसाधनेन सदा स्वदेहं शोधयन्ति
सहस्रावान्तरभेदयुक्तेन तेन साधनेन पावमान्य ऋचो यां पुवन्तु।
अथ षोडशीमाह-
प्रा॒जा॒प॒त्यं प॒वित्र॑म्। श॒तोद्या॑म ॅहिर॒ण्मय॑म्। तेन॑ ब्रह्म॒विदो॑
व॒यम्। पू॒तं ब्रह्म॑ पुनीमहे, इति।
यत्पवित्रं शुद्धिसाधनं प्राजापत्यं प्रजापतिसंबन्धि शतोद्यामं
दर्भैर्निर्मितत्वाच्छतसंख्याकैरूद्यमैर्नाडीभिर्युक्तं हिरण्मयं पापहरणसाधनेन
निर्मितं तेन तादृशेन पवित्रेण ब्रह्मविदो वेदार्थविदो वयं पूतं ब्रह्म पूर्वमपि
शुद्धं परिवृढं कर्म पुनीमहे भूयोऽपि शोधयामः।
अथ सप्तदशीमाह-
इन्द्रः॑ सुनी॒ती स॒ह मां पुनातु। सोमः॑ स्व॒स्त्या वरु॑णः
स॒मीच्या॑। य॒मो राजा॑ प्रमृ॒णाभिः॑ पुनातु मा। जा॒तवे॑दा
मोर्ज॑यन्त्या पुनातु (६), इति।