तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 236, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.४.८) २०७
अथ नवमीमाह-
येन॑ दे॒वा अपु॑नत । येना॒ऽऽपो दि॒व्यंकश॑: । तेन॑ दि॒व्येन॒
ब्रह्म॑णा । (३) । इ॒दंब्रह्म॑ पुनीमहे, इति ।
येन शुद्धिसाधनेन देवाः पूर्वान्यजमानानपुनत । कश गताविति
धातोरुत्पन्नःसकारान्तः । कशः शब्दो गतिवाची । येन
शुद्धिसाधनेनाऽऽपो देवता दिव्यंकशोऽपुनत दिव्यलोकविषयां गतिं
शोधितवन्तः (त्यः) । दिव्येन द्युलोकयोग्येन ब्रह्मणा परिवृढेन तेन
सुद्धिसाधनेनेदं ब्रह्मानुष्ठीयमानं परिवृढं कर्म पुनीमहे ।
अथ दशमीमाह-
यः पा॑वमा॒नीर॒ध्येति॑ । ऋषि॑भि॒: संभृ॑तं॒ रस॑म् । सर्वं॒ ँस
पू॒तम॑श्नाति ॥ स्व॒दि॒तं मा॒त॒रिश्व॑ना, इति ।
यः पुमान्पावमानीः शोधकदेवतासंबन्धनीरेता ऋचोऽध्येति
पठत्यर्थतः स्मरति वा स पुरुषः सर्वं रसं सारभूतं फलमश्नाति भुङ्क्ते ।
कीदृशं रसम् । ऋषिभिः संभृतं मन्त्रैस्तदभिज्ञैर्मुनिभिश्च संपादितम् । अत
एव पूतं शुद्धं मातरिश्वना वायुनास्वदितं स्वादूकृतम् ।
अथैकादशीमाह-
पा॒व॒मा॒नीर्यो अध्येति॑ । ऋषि॑भि॒: संभृ॑तं॒ ँ रस॑म् । तस्मै॒
सर॑स्वती दुहे । क्षी॒र ँ स॒र्पिर्मधूद॑कम्, इति ।
यः पावमानीरध्येति तस्मै पुरुषाय सरस्वती रसं दुहे । कीदृशं ।
क्षीरादिरूपम् ।
पा॒व॒मा॒नीः स्व॒स्त्यय॑नीः(४) । सु॒दुघा॒ हि पय॑स्वतीः ।
ऋषि॑भि॒: संभृ॑तो॒ रस॑:। ब्रा॒ह्म॒णेष्व॒मृतं॒ ँ हि॒तम्, इति ।
याः पावमान्य ऋचस्ताः स्वस्त्ययनीः क्षेमप्रापिकाः सुदुघाः सुष्ठु
फलं दुहानां पयस्वतीः क्षीरादिरसहेतवश्च प्रसिद्धास्ता
अस्माननुगृह्णन्त्विति शेषः । ऋषिभिर्मन्त्रदर्शिभिर्मुनिभी रसः फलसारः
संभृतोऽस्मासु संपादितोऽस्तु । ब्रह्म मन्त्रस्तत्पाठकाब्राह्मणा-
स्तेष्वस्मास्वमृतमविनाशि फलं हितं संपादितमस्तु ।
अथ त्रयोदशीमाह-