सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 197, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 197

१६८ (१.४.१) तैत्तिरीयब्राह्मणम्
प्रकरणेन तद्वदिति वाच्यम् । तस्यानारभ्याधीतत्वात् । तस्मादयं
पुरुषार्थः ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे तृतीयप्रपाठके
दशमोऽनुवाकः ।। १० ।।
वेदार्थस्य प्रकाशन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।।
इति श्रीमद्वीरबुक्कणसाम्राज्यधुरंधर श्रीमत्सायणाचार्यविरचिते माधवीये
वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
तृतीयः प्रपाठकः समाप्तः ।। ३ ।।
(मूलक्रमेण-अष्ट. १ अध्या. ३ अनु. १० (२६) । (भाष्यक्रमेण- कां.
१ प्रपा. ३ अनु. १० (२६) ।
अथ प्रथमकाण्डे चतुर्थप्रपाठकारम्भः ।
तत्र प्रथमोऽनुवाकः ।
यस्यनिःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।
तृतीये वाजपेयो यः स प्राधान्येन वर्णितः ।
पुनराधेयकं पिण्डपितृयज्ञश्च वर्णितः ।।
सोमादिब्राह्मणे पूर्वं यन्नोक्तं तच्चतुर्थके ।
प्रवक्ष्यते ग्रहाश्चास्मिन्ननुवाके समीरिताः ।।
तत्राऽऽदौ ग्रहाणां ग्रहणं विधत्ते-
उ॒भये॑ वा ए॒ते प्र॒जाप॑तेरध्य॑सृज्यन्त । दे॒वाश्चासु॑राश्च ।
तान्न व्य॑जानात् । इ॒मेऽन्य इ॒मेऽन्य इति॑ । स दे॒वान् ५
शूर्न॑करोत् । तान॒भ्य॑पुणोत् । तान्प॒वित्रे॑णापुनात् ।
तान्पु॒रस्ता॑त्प॒वित्रे॑स्य॒ व्य॑गृह्णात् । ते ग्रहा॑ अभवन् ।
तद्ग्रहा॑णां ग्रह॒त्वम् (१) । दे॒वता॑ व ए॒ता यज॑मानस्य गृ॒हे
गृ॒ह्यन्तै॑ । यद्ग्रहा॑: । वि॒दुरैनं॑ दे॒वाः । यस्यै॒वं वि॒दुष ए॒ते
ग्रहा॑ गृ॒ह्यन्तै॑, इति॑ ।