तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 196, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.३.१०) १६७
एतदेव समन्त्रकं पुनरागमनं प्रशंसति-
पि॒तृ॒लो॒के वा ए॒तद्यज॑मानश्चरति । यत्पि॒तृभ्यः॑ क॒रोति॑ ।
स 'ईश्व॑र आर्तिमार्तो॑ः । प्र॒जाप॑ति॒रत्वा वै॒नं तत्
उन्नै॑तुम॒र्हतीत्या॑हुः । यत्प्रा॑जाप॒त्यय॒र्चा पुन॒रैति॑ ।
प्र॒जाप॑तिरे॒वैनं॑ तत् उन्न॑यति । नाऽऽर्तिमा'र्च्छति॒ यज॑मानः
(१०), इति ।
इत्य॑श्नुते पद्यन्ते पद्यन्ते षड्वा ऋतवौ॑ । वर्त॑ते॒ऽर्हवि स्यान्ने॒दीय॑ः
स्थ य॒ज्ञो यज॑मानश्चरति यत्पि॒तृभ्यः॑ क॒रोति॒ पञ्च॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
तृतीयाध्याये दशमोऽनुवाकः ॥ १० ॥
दे॒वा॒सु॒रा अ॒ग्नीषोम॑योर्दे॒वा वै यथादर्शौ दे॒वा वै
यदु॒न्त्यैर्गर्हैर्ब्र॑ह्मवा॒दिनो॒ नानि॑ष्टोमो न सवि॒त्रं दे॒वस्या॒हं
ता॒प्य ँ स॒प्तार्नहो॑मान्नुषद्ं त्वेन्द्रो॑ वृत्र ँ ह॒त्वा दर्श॑ ।
दे॒वा॒सु॒रा वाऽऽज्यैवै॒नं तस्मा॑द्वाजपेयया॒जी दे॒वस्या॒हं
वाज॑स्याव रुद्ध्या इन्द्रि॒यमे॒वास्मिन्हलीका॑ हि पि॒तरः॑
प॒ञ्चष॒ष्टिः ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके तृतीयोऽध्यायः ॥ ३ ॥
पितृभ्यः करोतीति यदस्त्येतेन यजमानः पितृलोक एव संचरति ।
अतः यजमानो मनुष्यलोक निःस्पृहत्वादत्र पीडां प्राप्तुं प्रभवति । तमेनं
प्रजापतिरेव तत आर्तेरुद्धर्तुमर्हतीत्येवमभिज्ञा आहुः । अतः
प्राजापत्यमन्त्रेणाऽऽगच्छन्तं प्रजापतिरुद्धरति । सोऽप्यार्तिं न प्राप्नोति ।
अत्र मीमांसा । चतुर्थध्यायस्य चतुर्थपादे चिन्तितम्-
क्रत्वङ्गं स्यान्न वा पिण्डपितृयज्ञः क्रतौ हि सः ।
अमावास्योक्तितो मैवं तत्कालोक्तेः पुमर्थता ॥ (इति) ।
इदमाम्नायते-“अमावास्यायामपराह्ने पिण्डपितृयज्ञेन चरन्ति"
इति । तत्रामावास्याशब्दवाच्ये कर्मणि विधीयमानत्वादयं पिण्डपितृयज्ञः
क्रत्वङ्गमिति चेत् । मैवम् । अमावास्याशब्दस्य कालवाचित्वात् ।
कर्मणि त्वयं शब्दो लाक्षणिकः । न च वाक्येन क्रत्वङ्गत्वाभावेऽपि