सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 198, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 198

तैत्तिरीयब्राह्मणम् (१.४.१) १६९
देवा असुराश्चेत्येते द्विविधा अपत्याविशेषाः प्रजापतेः
सकाशादधिकत्वेन सृज्यन्त । सृष्टानां च तेषामतिबहुत्वेन
संकीर्णत्वादिमेऽन्ये पृथग्भूता देवा इमे चान्ये पृथग्भूता असुरा इति
प्रजापतिस्तद्विभागं न ज्ञातवान् । अतो विभागज्ञानाय
देवान्सर्वानंशूनकरोत् । सोमलतावयवरूपाणि शरीराणि देवानां कृतवान्
तानि लताशरीराणि स्वचिह्नत्वेन धृत्वा देवाव्यावृत्तत्वेन प्रजापतिना
विज्ञाताः । तांश्च लतादेहानभिषुत्य दशापवित्रारूप्येण वस्त्रखण्डेन ऋजीषं
यथा न संकीर्येत तथा रसं शोधयित्वा पवित्रस्य परस्तादूर्ध्वमवस्थि-
तस्याधोभागे विविधमिन्द्रावायावादिदेवार्थं गृहीतवान् । त च रसा ग्रहा
अभवन् । तस्माद्गृह्णन्त इति व्युत्पत्त्या रसानां ग्रहत्वं संपन्नम् । य एते
ग्रहास्ता ता देवता भूत्वा ता एव यजमानस्य गृहे हविर्धाने गृह्यन्ते । अत
एते ग्रहा ग्रहीतव्या इत्यर्थः । एवं महिमानं जानतो यस्य यजमानस्य ग्रहा
एते गृह्यन्ते तमेनं यजमानं देवा विदुः । सम्यगनुष्ठितवानित्येवं देवलोके
प्रसिद्धि गच्छतीत्यर्थः । सौमिकमन्त्रव्याख्यानरूपे षष्ठकाण्डे
ऐन्द्रवायवादिग्रहविशेषा एव विहिता न तु ग्रहसामान्यम् । इह तु
तद्विधीयत इत्ययमनुवाकस्तत्काण्डशेषः ।
ग्रहग्रहणं विधायोपांशु ग्रहस्य होमं विधत्ते-
ए॒षा वै सोम॑स्याऽऽहु॑तिः। यदु॑पा॒ ॅ शुः॑। सोमे॑न दे॒वा ॅ
स्त॒र्पयाणीति॑ खलु॒ वै सोमे॑न यजते। यदु॑पा॒ ॅ शुं जु॒होति॑।
सोमे॑नै॒व तद्दे॒वा ॅ स्त॑र्पयति, इति।
“वाचस्पतये पवस्व वाजिन्” इत्यनुवाकेन सिद्धो योऽयमुपांशुग्रह
एषैव सोमस्य समन्ताद् धुतिः । अत्र हि पात्रस्थः सर्वोऽपि सोमो हूयते ।
न तु ग्रहान्तरवत्कियानप्यवशिष्यते । यजमानोऽपि सोमेन
देवांस्तृप्तान्करोमीत्यभिप्रेत्य सोमयागे प्रवृत्तः तस्मादुपांशु जुहुयात् । तेन
सम्पूर्णसोमेनैव देवांस्तर्पयति ।
अथेतरग्रहहोमं विधत्ते-
यद॒ग्रग्राहा॑ञ्जु॒होति॑ (२)। दे॒वा एव तद्दे॒वान्ग॑च्छन्ति, इति।
तेन ग्रहहोमेन लताशरीरधारिणो देवा एव दिव्यविग्रहधारिण
इन्द्रावायावादिदेवानागच्छन्ति ।
ऊर्ध्वपात्रस्थाः सोमरसात्मका ये चमसास्तेषां होमं विधायानूर्ध्वं
चतुरस्रपात्रस्थिताः सोमरसात्मका ये चमसास्तेषां होमं विधत्ते-