तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 192, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.३.१०) १६३
यदुक्तं सूत्रकारेण-“मेक्षणमुपस्तीर्य तेनावदायाभिघार्यं” इति तस्य
मेक्षणस्याग्नौ प्रहरणं विधत्त-
तूष्णीं मे॑क्ष॒णमाद॑धाति । अस्ति॒ वा॒ ३ हिं॒ षष्ठ॒ ऋ॒तुर्न॒ वा,
इति ।
मेक्षणशब्देन प्रादेशमात्रा समिदुच्यते । हविरवदानसाधनं मेक्षणं
मन्त्रमन्तरेणाग्नौ प्रक्षिपेत् । शास्त्रेषुषष्ठ ऋतुरस्तीत्येकःपक्षः । “षड् वा
ऋतवः” इति श्रुतेः । नास्तीत्यपरः पक्षः । “पञ्चर्तवो हेमन्तशिशिरयोः
समासेन” इति श्रुत्यन्तरात् । अतस्तूष्णीं समिदाधाने पक्षद्वयमप्यनुश्रुतं
भवति । तत्र समिधाः प्रक्षिप्तत्वादस्तित्वपक्षोऽङ्गीकृतः। मन्त्रराहित्या-
दभावपक्षोऽङ्गीकृतः।
आहुतित्रयं पिण्डत्रयं च प्रकारान्तरेण प्रशंसति-
दे॒वान्वै पि॒तृन्प्री॒तान् । म॒नुष्या॑: पि॒तरो॑ऽनु प्रपि॑पते । ति॒स्र
आहुती॑र्जुहोति । त्रिर्निद॑धाति । षट् संप॑द्यन्ते । षड् वा
ऋ॒तव॑:(४) ऋ॒तव॑:खलु॒ वै दे॒वा: पि॒तर॑: । ऋ॒तूने॒व
दे॒वान्पि॒तृन्प्री॑णाति । तान्प्री॒तान् । म॒नुष्या॑: पि॒तरो॑ऽनु
प्रपि॑पते, इति ।
द्विविधा हि पितरो देवत्मका मनुष्यात्मकाश्च । पितृलोकस्वामिनो
देवात्मकाः । मृताः सन्तो भोगांस्तल्लोकं प्राप्ता मनुष्यात्मकाः । तत्र
देवात्मकेषु पितृषु प्रीतेषु ताननु मनुष्यात्मकाः पितरः प्रपिपते प्रीता
भवन्तीति युक्तम् । तदर्थमादौ तिस्र आहुतयः पश्चात्पिण्डत्रयम् ।
किंचोभयमेलनेनषट् संपत्त्या तत्संख्याका ऋतवः संपद्यन्ते ।
ऋत्वभिमानिनश्च देवाः पितरः। ततश्च संख्यामात्रेण देवपितृषु प्रीतेषु
पश्चान्मनुष्यपितरः प्रीता भवन्ति ।
विधत्ते-
स॒कृ॒दा॒च्छि॒न्नं ब॒र्हिर्भव॑ति । स॒कृद्दे॒व हि पि॒तर॑:, इति ।
पिण्डनामधस्ताद्यद्बर्हिरास्तीर्यते तदेकप्रयत्नेनैवावच्छेदनीयम् । न तु
लवनकाले दात्रस्य पुनः पुनर्व्यापारः । एकेनैव दृढेन व्यापारेण यावद-
वच्छिन्नं तावदेवाऽऽनेतव्यम् । यस्मात्पितरः सकृन्मरणेनैव पितृत्वं प्राप्नु-
वन्ति । न तु तत्प्राप्तये पुनः पुनर्म्रियन्ते ।