तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 191, कुल 345 में से
संदर्भ में पढ़ें१६२ (१.३.१०) तैत्तिरीयब्राह्मणम्
ए॒तद्वै ब्राह्म॑णं पुरा वाज॑श्रव॒सा वि॒दाम्ब॑क्रन् । तस्मा॒त्ते द्वे द्वे॑
जा॒ये अ॒भ्या॑क्षत । य ए॒वं वेद॑ । अ॒भि द्वि॒तीयां जा॒याम॑श्नुते,
इति ।
वाजोऽन्नं तद्दाननिमित्तं श्रवःकीर्तिर्यस्य महर्षेरसौ वाजश्रवास्तस्य
पुत्रा वाजश्रवसाः। ते च पुरा "सोमाय पितृपीताय" इति मन्त्रस्य
व्याख्यानरूपमेतद् ब्राह्मणं विदितवन्तः। तस्माद्वेदनात्ते महर्षयःप्रत्येकं
जायाद्वयमभिप्राप्तवन्तः । तस्मादन्योऽपि विदित्वा द्वितीयां जायां
प्राप्नोति ।
अथ द्वितीयहोममन्त्रं विधत्ते-
अ॒ग्नये॑ कव्य॒वाह॑नाय॒ स्वधा॒ नम॒ इत्या॑ह । य ए॒व
पि॒तॄणा॑म॒ग्निः। तं प्री॑णाति, इति ।
कव्यं पित्र्यं हविर्वहतीति कव्यवाहनः। तस्य च
पितृसंबन्धोऽन्यत्राप्याम्नातः-“त्रयो वा अग्नयो हव्यवाहनो देवानां
कव्यवाहनःपितॄणा ँ सहरक्षा असुराणाम्" इति । तस्मादेतन्मन्त्रहोमेन
तं पित्र्यमग्निं परितोषयति ।
शाखान्तरगतन-“यमायाङ्गिरस्वते पितृमतेस्वधा नमः"इतिमन्त्रे-
णैकामाहुतिमभिप्रेत्य त्रित्वं विदधाति-
ति॒स्र आहु॑तीर्जुहोति, इति ।
तथा च सूत्रकारेण स्पष्टमुक्तम्-“सोमाय पितृपीताय स्वधा नम इति
प्रथमां दक्षिणाग्नौ जुहोति यमायाङ्गिरस्वते पितृमतेस्वधानम इति द्वितीया
यज्ञये कव्यवाहनाय स्वधा नम इति तृतीयाम् ” इति ।
यदुक्तं सूत्रकारेण-“सव्यं जान्वाच्यावाचीनपाणिः सकृदाच्छिन्न
बर्हिषिदक्षिणांपवर्गान्पिण्डान्ददाति" ' तदिदं विधत्त-
त्रिर्निद॑धाति, इति ।
तदेतदाहुतित्रयं पिण्डत्रयं च मिलित्वाप्रशंसति-
षट् संप॑द्यन्ते (३) । षड् वा ऋ॒तव॑ः। ऋ॒तूने॒व प्री॑णाति,
इति ।