तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 193, कुल 345 में से
संदर्भ में पढ़ें१६४ (१.३.१०) तैत्तिरीयब्राह्मणम्
पिण्डदानस्य त्रित्वं प्रशंसति-
त्रिर्निद॑धाति । तृ॒तीये॑ वा इ॒तो लो॒के पि॒तर॑: । ताने॒व
प्री॑णाति, इति ।
इतो भूलोकादारभ्यान्तरिक्षलोकमतिक्रम्य यस्तृतीयो लोकस्तत्र
पितरो वर्तन्ते । अतस्त्रित्वेन तान्परितोषयति ।
विधत्ते-
परा॒ङाव॑र्तते (५) । ह्रीका॑ हि पि॒तर॑:, इति ।
दक्षिणाभिमुखः पिण्डं दत्वा पिण्डनिरीक्षणं परित्यज्य पराङ्मुखो
भवेत् । पितॄणां लज्जाशीलत्वात् । लोकेऽपि हि भुञ्जानाः प्रभवो
नान्यैर्वीक्ष्यन्ते ।
विधत्ते-
ओष्मणो॑ व्या॒वृत्त॒ उपा॑स्ते ।
ऊ॒ष्मभा॑गा हि पि॒तर॑: इति ।
औष्ण्यवशात्पिण्डेषु योऽयमूष्मा निर्गच्छति तस्य
यावदुपरमोऽव्यावृत्तस्तदुपरमपर्यन्तं तथैव स्थित्वा सेवेत ।
पितॄणामूष्मभागित्वेन तच्छान्तिपर्यन्तं तद्भोजनकालत्वात् ।
अथ विचारपूर्वकं पिण्डशेषस्य पात्रगतस्याऽघ्राणं विधत्ते-
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । प्राश्या३ं न प्राश्या३मिति॑ ।
यत्प्राश्नी॒यात् । ज॒न्यमन्न॑मद्यात् । प्रमायु॑कः स्यात् । यन्न
प्राश्नी॒यात् । अह॑वि स्यात् । (६) पि॒तृभ्य॒ आवृ॑श्च्येत ।
अव॑घ्रेयमे॒व । तन्नेव॒ प्राशि॑तं॒ नवाप्रा॑शितम्, इति ।
विचारार्था प्लुतिः । प्राशनपक्षे बीजभक्षणवददनी-
यस्याभावात्क्षुधितो यजमानो म्रियेत । अप्राशनपक्षे तु सर्वत्र हविः शेषस्य
भक्षणदर्शनादिदं हविरेव न स्यात् । अतोऽयं पितृभ्यो विच्छिद्येत । अतो
दोषद्वयपरिहाराय पात्रगतमन्नमवजिघ्रेदेव । तदवघ्रातं प्राशितमिव न
भवति । निगरणाभावात् । अप्राशितमिव न भवति । तदीयगन्धस्यान्तः
प्रवेशात् ।