सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 869, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 869

८७० परिशिष्टत्वेन संगृहीतः- [ अनु० ५५-५६ ]
अथ पञ्चपञ्चाशोऽनुवाकः ।
स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा विमृधो॑ व॒शी ।
वृषेन्द्॑रः पु॒र ए॑तु नः स्वस्ति॒दा अ॑भयंकरः ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
पञ्चपञ्चाशोऽनुवाकः ॥ ५५ ॥
स्वस्तिदा इति । इतस्ततो गच्छतां नोऽस्माकं पुरः पुरस्तादौपलक्षण्येन प्रागवा-
क्प्रत्यगुदगूर्ध्वाधोदिक्षु परिपालनायेन्द्र एत्वागच्छतु । सर्वतो दिक्षु वज्रहस्तेन पालिता
वयं निर्भयाः स्याम्येति भावः । इन्द्रः कीदृक् । स्वस्तिदा भूलोकसुखकृत् । पुनः
स्वस्तिदा आमुत्रिकसुखकृत् । विशो नानाविधप्रजायाः पतिः प्रभुः । वृत्रहा स्फीतम्
(स्पष्टम्) । विमृधो रक्षोजातिमथनकर्ता । वशी त्रैलोक्यवशीकारवान् । वृषा प्रावृषि
वृष्ट्युदकसेचकः । अभयंकरः स्वाश्रितानाम् ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये पञ्चपञ्चाशोऽनुवाकः ॥ ५५ ॥
अथ षट्पञ्चाशोऽनुवाकः ।
त्र्य॑म्बकं यजामहे सु॒गन्धिं पु॑ष्टिव॒र्धन॑म् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता॑त् ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
षट्पञ्चाशोऽनुवाकः ॥ ५६ ॥
त्र्यम्बकमिति । हे भगवन्पार्वतीपते त्वां यजामहे । त्वां कीदृशम् । त्र्यम्बकं
त्रिनेत्रम् । सुगन्धिं यथा केतक्यादिभोगन्धो दूरादाघ्रायते तथा तदीयदिव्यदेहसौरभ्यं
सोऽयं सुगन्धिः । सुपूर्वकत्वाद्वन्धशब्दस्ये*कारः । पुनः कीदृशम् । पुष्टिवर्धनं पुष्टिं
लौकिकवैदिकपुष्टिं वर्धयतीति तथोक्तम् । हे भगवंस्त्वां संध्यावर्च(न्द)नादिसत्कर्मभिर्य-
जित्वा यथोर्वारुकं कर्कट्यादेः फलं पक्कं सद्धन्धनाद्वृन्तादनायासेन मुच्यते तथा
वयं मृत्योः सकाशान्मुक्षीय मुक्षीमहि मुक्ता भवेम । “व्यत्ययो बहुलम्” इति वच-
नव्यत्ययः । अमृतान्मोक्षान्मा मुक्षीमहि न वियुज्यामहे ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये षट्पञ्चाशोऽनुवाकः । ५६ ॥

  • गन्धस्येदूत्पूतिसुसुरिभिम्य इति सूत्रेणेति भावः । = दृष्ट्वेति पाठ्यम् ।
    १ घ. ७२ । २ घ. ७३ ।