सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 868, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 868

[ अनु० ५४ ] सभाष्यो दशमप्रपाठकः । ८६९
कथंभूतः सन् । भामितोऽस्मदपराधैः कारितक्रोधः । त(त्व)दर्थं हविष्मन्तो यथावि-
धिनिष्पादितहविर्युक्तजुहूहस्ता वयं नमसा प्रणामेन ते तवेज्यां विधेम कुर्याम ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये त्रिपञ्चाशोऽनुवाकः ॥ ५३ ॥

अथ चतुष्पञ्चाशोऽनुवाकः ।
――――――――――
प्र॒जाप॑ते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यꣳ स्या॑म प॒तयो॑ रयी॒णाम् ।'
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि
चतुष्पञ्चाशोऽनुवाकः ॥ ५४ ॥
प्रजापत इति । हे प्रजापते ब्रह्मण्पार्वतीवल्लभ त्वत्त्वत्तो जातान्युत्पन्नानि विश्वा
विश्वानि समस्तानि [ता] तानि प्रसिद्धान्येतान्युपलभ्यमानानि सुरनरतिर्यगादिलक्ष-
णानि पञ्चभूतानि चतुर्दश भुवनानि नानाविधब्रह्माण्डपिण्डाण्डानि त्वत्तोऽन्यो यः
कश्चिन्न परिवभूव । परिपूर्वो भवतिस्तिरस्कारार्थः । नोपसंहरतीति यावत् । औपल-
क्षण्येन न संजीवयति [ न सृजति च ] । अपि तु सृष्टिकाले त्वमेव सृजसि जीवनकाले
त्वमेव जीवयसि प्रलये त्वमेव त्वय्येवोपसंहरसि नान्यः कश्चिदित्यभिप्रायः । यस्मादेवं
तस्मात्ते निखिलजगदुत्पत्तिस्थितिलयकर्त्रे भगवते तुभ्यं जुहुमः । श्रौतस्मार्तानुष्ठानो-
पयोगिहविस्त्यागं कुर्मः । अत एव यस्मिन्कामो येषामस्माकं ते वयं यत्कामा
ऐहिकामुष्मिकोपभोग्ये यद्वा(न्न) वयं जुहुमस्तद्वाञ्छितं वस्तु नोऽस्मभ्यमस्तु ।
श्रौतस्मार्तहोमफलत्वेन सिध्यतु । किंच तवापाङ्गालोके पतिता वयं रयीणां विद्या-
विनयसंपदामिहपरोपभोग्यभोगसंपदां च पतयोऽधिपतयः स्याम । अयमेव मन्त्रो
ब्राह्मणभोजनादौ पार्वतीपतिप्रीतिकृदुदकदाने विनियुज्यते । तस्मिन्पक्षे जुहुमो ब्राह्म-
णमुखाग्नौ मिष्टान्नरूपहव्यत्यागरूपं होमं कुर्म इति व्याख्यायामन्यत्सर्वमेतदनुकूलत्वेन
व्याख्यातामिति दिक् ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यक.दशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये चतुष्पञ्चाशोऽनुवाकः ॥ ५४ ॥

१ व. ७१ ।