सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 870, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 870

[ अनु० ५७-५८ ] सभाष्यो दशमप्रपाठकः । ८७५
अथ सप्तपञ्चाशोऽनुवाकः ।
ये ते॑ स॒हस्र॑म॒युतं॒ पाशा॒ मृत्यो॒ मर्त्या॑य॒ हन्त॑वे ।
तान्य॒ज्ञस्य॑ मा॒यया॒ सर्वा॒नव॑ यजामहे ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि
सप्तपञ्चाशोऽनुवाकः ॥ ५७ ॥
य इति । हे मृत्यो मर्त्याय व्यत्ययेन[मर्त्यं] प्राणिमात्रं हन्तवे हन्तुं सहस्रमयुत-
मेतत्संख्याका ये ते तव पाशाः सन्ति तान्सर्वान्पाशानवयजामहे निवारयामः। अत्रो-
पसर्गयोगेन यजतेर्भिन्नाथंतोच्यते । केन साधनेन । यज्ञस्य सत्कर्मानुष्ठानस्य मायया
मिषेण च्छद्मना । पुत्रजन्मच्छद्मना पैतृकमृणमपा(पा)करोतीत्यादिवदयं प्रयोगो द्रष्टव्यः ।
यद्वा यज्ञस्य सत्कर्मानुष्ठानस्य मायया शक्त्या बलेन । मायाशब्दः शक्तिपर्यायः ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये सप्तपञ्चाशोऽनुवाकः ॥ ५७ ॥
अथाष्टपञ्चाशोऽनुवाकः ।
मृत्यवे॒ स्वाहा॑ मृत्यवे॒ स्वाहा॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषद्य-
ष्टपञ्चाशोऽनुवाकः ॥ ५८ ॥
मृत्यव इति । अथेदानंी पापमात्रनिबर्हणार्था होममन्त्रा उच्यन्ते तादृग्लिङ्गप्रतीतेः ।
यो नानाविधपातक[वा]न्पापनिबर्हणकामवांश्च तेन स्वगृह्योक्तविधिना पञ्चभू[त]संस्का-
राद्याज्यसंस्कारान्तं कर्म कृत्वैतैर्वक्ष्यमाणमन्त्रैः प्रधानाहुतयः कर्तव्याः । स्विष्टकृदा-
द्यन्यत्समानम् । मन्त्रस्यायमर्थः । येन म्रियन्ते प्राणिनः स मृत्युस्तस्मै [ मृत्यवे ]
स्वाहा सकृद्गृहीतमिदमाज्यं सुहुतमस्तु । आहुतिद्वयद्योतनार्था मन्त्रावृत्तिः । इदमा-
हुतिद्वयं मृत्युदेवत्यम् ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्येऽष्टपञ्चाशोऽनुवाकः ॥ ५८ ॥