सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 562, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 562

[प्रपा०८अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५५७

प्रसज्येतेति शङ्कनीयम् । मिथ्यात्वस्याऽसद्भावेव निवर्तितत्वात् । न हि कतकरजसो
निवृत्तौ पूर्वकालुष्यं पुनरागच्छति । नाप्यौषधे जीर्णे पुनरन्नमजीर्णं भवति । सत्यत्वमि-
थ्यात्वयोरुभयोरापि व्यावृत्तौ निर्धर्मकं ब्रह्मेति लक्षितं भवति । न च तादृशं नास्त्ये-
वेति शङ्कनीयं सदात्मरूपत्वानुपपत्तेः । सद्रूपत्वमात्मरूपत्वं च च्छन्दोगा आमनन्ति
“सदेव सोम्येदमग्र आसीत्” इति सद्वस्तु प्रक्रम्य—“तत् सत्यं स आत्मा” इति
श्रवणात् । अतो यदत्र सत्यशब्देन विवक्षितं तदेव सद्रूपमात्मरूपं चेत्यवगम्यते । न
हि तेजसस्तमस्त्वमिव सतोऽसत्ता संभवति । आत्मनोऽसत्त्वं भाष्यकारवचनमुदाहृत्य
पूर्वमेव निराकृतम् । किंच सत्यत्वमिथ्यात्वादिकल्पनाया अधिष्ठानत्वादपि ब्रह्मणो नास-
त्त्वम् । न हि निरधिष्ठानो भ्रमः संभवति । एतदेवाभिप्रेत्य च्छान्दोग्ये “तद्धैक आहुर-
सदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायत” इति परकीयमतत्वेनासत्पक्ष-
मुपन्यस्य “कुतस्तु खलु सौम्यैवं स्यादिति होवाच कथमसतः सज्जायेत” इति तं पक्षं
दूषयित्वा “सत्त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्” इति सत्पक्षं स्वकीयमतत्वे-
नोपसंहरति । युक्तश्चायमेव पक्षः । असतो जगदुपादानत्वे तु पृथिवी नास्त्यापो न
सन्तीति सर्वं जगदसदनुविद्धं प्रतीयेत न त्वेवं प्रतीयते । किं त्वस्ति पृथिवी सन्त्याप
इत्येवं सदनुविद्धमेव सर्वं प्रतीयते । तस्माज्जगत्कारणं ब्रह्म सद्रूपमेव । यथा छान्दोग्ये
ब्रह्मणः कारणत्वमुपजीव्य सत्त्वासत्त्वपक्षयोर्गुणदोषावपन्यस्तावेवमत्रापि ब्रह्मणः प्रत्य-
गात्मरूपत्वमुपजीव्य सत्त्वासत्त्वपक्षयोस्तावुपन्थासिष्येते—“असन्नेव स भवति । अस-
द्व्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुः” इति । कठाश्चाऽऽ-
मनन्ति—“अस्तीत्येवोपलब्धव्यः” इति तस्माद्वस्तुतः सत्यत्वधर्मरहितमपि ब्रह्म
तत्कल्पनाधिष्ठानत्वात्सद्रूपमेव । “परस्परविरोधे हि न प्रकारान्तरस्थितिः” इतिन्या-
येन सत्यत्वमिथ्यात्वोभयराहित्यमयुक्तमिति चेत् । मैवम् । नपुंसकंव्यक्तिवत्तदुपपत्तेः ।
यथा परस्परविरुद्धस्त्रीत्वपुरुषत्वोभयरहिता सा व्यक्तिस्तद्वत् । प्रत्यक्षेण प्रमिताऽसौ
व्यक्तिरिति चेत्तर्हि ब्रह्मापि श्रुत्या प्रमीयताम् । श्रुतिस्तु सत्यं ब्रह्मेति सत्यशब्दवा-
च्यत्वं ब्रुवती सत्यत्वधर्ममङ्गी करोतीति चेन्न । “यतो वाचो निवर्तन्ते” इति वाच्य-
त्वप्रतिषेधश्रुतेः । सत्यशब्दस्तु * व्यावहारिकसत्यत्वधर्मवाचकत्या लोके व्युत्पन्नः
सन्ब्रह्मण्यरोपितं व्यावहारिकसत्यत्वधर्ममुपजीव्य तद्विरुद्धं मिथ्यात्वं निराकुर्वन्धर्मद्वय-
रहितं सन्मात्रं ब्रह्मतत्त्वं +लक्षयति । यथा पादतले लग्नकण्टकमन्येन कण्टकेनोद्धृत्य
कण्टकद्वयं परित्यज्य केवलं पादमवशेषयति तद्वत् । तस्मात्सत्यं ब्रह्मेत्येतल्लक्षणं निर्दो-


* व्यावहारिकश्चासौ सत्यत्वधर्मश्चेति समासः । + बोधयतीत्यर्थः ।
१ ग. ॰वृत्तः पू । २ ख. नास्तीति । ३ क. ख. घ. छ. ॰त्मत्वं छन्दो॰ । ४ ख. 'त्मा” इत्युपसंहारात् । ५ ग. घ. ॰ति तत्पक्षं । ६ क. ख. छ. ॰क्तत्वञ्च ।