सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 561, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 561

५५६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०८अनु०

मपि बाधाभावाद्ब्रह्मणः पारमार्थिकं सत्यत्वम् । तत्राविशेषेण त्रिष्वपि प्र¹वर्त्तमानः सत्य-
शब्दो ज्ञानानन्तशब्दाभ्यां नियमितः सन्ब्रह्मण्येव पर्यवस्यति । न हि व्यावहारिकप्रा-
तिभासिकयोश्चिद्रूपत्वमपरिच्छिन्नत्वं वाऽस्ति । ज्ञानशब्दोऽपि चिद्वस्तुनि बुद्धिरूपे
ज्ञाने च प्र²वर्त्तमानः सत्यानन्तशब्दाभ्यां नियमितश्चिद्रूपे ब्रह्मण्येवावतिष्ठते³ । न सा
बुद्धिवृत्तिर्ब्रह्मवदत्यन्तमबाध्या त्रिविधपरिच्छेदरहिता वा । अनन्तशब्दश्च देशप-
च्छेदरहित आकाशे सर्वपरिच्छेदरहिते ब्रह्मणि च प्र⁴वर्त्तमानः सत्यज्ञानशब्दाभ्यां नि-
मितो ब्रह्मण्येवावतिष्ठते । न ह्याकाशस्य पारमार्थिकं सत्यत्वं स्फुरणत्वं वाऽस्ति
तदेवं परस्परं नियमितानि त्रीणि सत्यादिपदानि कूटस्थं चिद्रूपमद्वितीयं ब्रह्म प्रति-
दयन्ति । तदुक्तं पूर्वाचार्यैः—
“कौटस्थ्यमेव सत्यत्वं स्फुरणं ज्ञानमुच्यते ।
आनन्त्यमेकता चैवं बोध्यते ब्रह्म तैस्त्रिभिः” ॥ इति ।
तेष्वनन्तशब्द इतरव्यावृत्तिमुखेनैव ब्रह्म विशिनष्टि । सत्यज्ञानशब्दौ तु स्वार्थ-
कूटस्थत्वं स्फुरणं च *समर्पयन्तौ तद्विपरीतं मिथ्यात्वं जाड्यं चार्थान्निवारय-
विशेषणत्वं प्राप्नुतः । तदुक्तं वार्तिककृद्भिः—
“तत्रानन्तोऽन्तवद्वस्तुव्यावृत्त्यैव विशेषणम् ।
स्वार्थार्पणप्रणाड्या च परिशिष्टौ विशेषणम् ॥
शब्दात्प्रतीयते तावत्संग+