सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 563, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 563

षम् । ननु ज्ञानं ब्रह्मणि क्रिया प्रसज्येत । तथा हि । ज्ञायतेऽनेनेति व्युत्पत्तौ ब्रह्मणो
ज्ञानक्रियाकरणत्वं भावार्थव्युत्पत्तौ तु क्रियारूपत्वम् । न चोभयं युज्यते । “निष्कलं
निष्क्रियं शान्तम्” इति क्रिया प्रतिषिध्यते । तस्मादेतल्लक्षणं दुष्टमिति चेत् । मैवम्
सत्यशब्दवज्ज्ञानशब्दस्यापि लक्षणत्वात् । धात्वर्थस्तु बुद्धेर्वृत्तिः । तथा चोपदेशसाह-
स्त्र्यामभिहितम्—
“ आत्माभासस्तु तिङ्वाच्यो धात्वर्थश्च धियः क्रिया ।
उभयं त्वविवेकेन जानातीत्युच्यते मृषा ॥
चैतन्यप्रतिबिम्बेन व्यासो बोधोऽभिजायते ।
बुद्धेः शब्दादिनिर्भासस्तेन मोमुह्यते जगत् ” ॥ इति ।
चैतन्यप्रतिबिम्बयुक्तायां शब्दस्पर्शादिविषयावभासिकायां बुद्धौ व्युत्पन्नो ज्ञानशब्दो
ब्रह्मण्यरोपितेसर्वदृश्यभासकत्वधर्मे जडत्वनिवारणायोपजीव्य ततस्तेनापि धर्मेण विरहितं
नित्यचैतन्यं प्रत्यगात्मरूपं ब्रह्मतत्त्वमुपलक्षयति । तदेतत्सर्वं वार्तिककारैर्विस्पष्ट-
मभिहितम्—
“ बुद्धेः प्रत्ययकारित्वं तत्साक्षिण्युपचर्यते ।
आत्मचैतन्यसंदीप्तां वृत्तिं धीः कुरुते यतः ॥
चैतन्यालिङ्गिताः सर्वास्तप्तायोविस्फुलिङ्गवत् ।
धीवृत्तयो हि जायन्ते न क्वचिच्चिद्विवर्जिताः ॥
चैतन्यखचितान्दृष्ट्वा प्रत्ययान्बुद्धिकर्तृकान् ।
ज्ञानं क्रियत इत्यज्ञाः कूटस्थमिति मन्वते ॥
बुद्धयभावादवच्छिन्नं न ह्यन्यं यथा पुरा ।
बुद्ध्युत्पत्तावपि तथा निष्क्रियं ह्यनुभूयताम् ”॥ इति ।
“ न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते । यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृ-
त्स्रघन एवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव ” इत्यादिश्रुते-
त्यचैतन्यैकरसस्वभावावगमात्तादृशस्यैव निष्क्रियस्याऽऽत्मनो ज्ञानशब्देन लक्ष्यमाण-
ञ्ज्ञानं ब्रह्मेत्येतल्लक्षणमपि निर्दोषमेव । नन्वनन्तं ब्रह्मेतिलक्षणे त्रिविधपरिच्छेदानिं-
तद्भावविशिष्टं ब्रह्मेति प्राप्नुयात् । इह भूतले घटो नास्तीति निषेधेन यथा घटा-
वैशिष्ट्यं भूतळस्य प्रतीयते तद्वत् । तथा च नाखण्डैकरसत्वसिद्धिरिति चेन्मैवम् ।
परिच्छेदनिषेधेन ब्रह्मव्यतिरिक्तस्य * वास्तवस्याभावस्यापि निषेधान्मायाकार्यमेव

  • व्यावहारिकस्येत्यर्थः ।
    १ ग. ॰याकारं । २ ग. ॰प्तिंतं सं । ३ ख. इत्यज्ञः । ४ ख. मन्यते ।