सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 31, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 31

२४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०१अनु०७]
आरुणकेतुको देवो वह्निरूपेणाऽऽदित्यरूपेण वाऽवस्थितः । यः पुमानेवमारुणकेतु-
काग्नेर्महिमानं जानाति तेनैवंविदुषा सहाऽऽचार्यान्तेवासिनावन्योन्यस्मै द्रोहं
कर्तुं नार्हतः । आचार्योऽध्वर्युः, यज्ञे धर्मानारतीति व्युत्पत्तेः । यजमानोऽन्तेवासी,
तस्याध्वर्योः समीपे निवासात् । तावध्वर्युयजमानावभिज्ञेन सह द्रोहयोग्यौ न भवतः ।
स्वयं द्रोह्यावपि न भवतो द्रोग्धारावपि न भवत इति वक्तुमन्योन्यस्मा इत्युक्तम् ।
तस्मै विदुषे स्वयं द्रोहमकृत्वा सोऽपि यथा न द्रुह्यति तथा वर्तितव्यम् । यो
मूढस्तस्मै विदुषे स्वयं द्रुह्यति सोऽयं स्वर्गलोकाद्भ्रष्टो भवति । तस्मान्न द्रोहः कर्तव्यः ।
“स्मृतिः प्रत्यक्षम्” इत्यारभ्य पञ्चस्वनुवाकेषु प्रोक्तोऽर्थ उपसंह्रियते—इति
एवमतीते ग्रन्थे “ऋतुर्ऋतुना नुद्यमानः” इत्यादिभिर्ऋतुमण्डलप्रतिपादकानि
वाक्यान्युक्तानि, “एतैरादित्यमण्डलम्” इत्यादिभिः सूर्यमण्डलप्रतिपादकानि वाक्या-
न्युक्तानि, पूर्वोक्त एवार्थो दृढमारूख्यायते यास्त्वृक्षूदाहृतासु ता आख्यायिकाः “शुक्रं
ते अन्यत्” इत्याद्यस्ता अप्युक्ताः । अत ऊर्ध्वमुपरितनेष्वनुवाकेषु सनिर्वचना
निःशेषेण वचनं निर्वचनं ब्राह्मणं तेन सहिता आख्यायिकाः सनिर्वचनाः । पूर्वे-
ष्वनुवाकेषु मन्त्रप्रतिपादितेऽर्थे संवादार्थमृच उदाहृता उत्तरेष्वनुवाकेषु ब्राह्मणप्र-
तिपादितेऽर्थे संवादार्थमृच उदाह्रियन्त इत्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयारण्यके प्रथमप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥
अथ प्रथमप्रपाठके सप्तमोऽनुवाकः ।
कल्पः— “आरोग इत्यष्टौ पदशो यत्ते शिल्पंमिति च” इति॑ । तत्र ब्राह्मणेमारोग
इत्यादिपदप्रतिपादिकामृचमुदाहरति—
आ॒रो॒गो भ्राजः॑ पट॒रः पत॒ङ्गः । स्वर्ष्णरो ज्योति॑-
षीमांन्वि॒भासः॑ । ते अ॒स्मै॒ सर्वे॑ दि॒वमांत॑पन्ति ।
ऊर्जं॒ दुहा॑ना अनपस्फुर॑न्त इ॒ति, इति॑ ।
आरोगादीनि विभासान्तानि सप्त पदानि सप्तानां सूर्यविशेषाणां नामधेयानि ।
ते सप्तापि सूर्या अस्मै लोकार्थं दिवमाकाशमातपन्ति सर्वतः प्रकाशयन्ति । किं कुर्वन्तः
ऊर्जं दुहाना वृष्टिद्वारेण क्षीरादिरसं संपादयन्तः । अनपस्फुरन्तः प्राणिनां प्रातिकूल्येन
१ ख. ग. ॰ति । आरोगादीनि विभासान्तानि । त॰ । २ ख. ग. ॰णभाग ।