तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 220, कुल 914 में से
संदर्भ में पढ़ेंHere is the line-by-line transcription in clean Markdown with Devanagari Unicode and Vedic svara accents:
[प्रपा०४अनु०१] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ३१७
यथोक्तमन्त्राभिवदनसिद्धयर्थं तदाधारभूतं कर्म पञ्चमभागेन प्रार्थ्यते—
तस्मा॑ अहमिद॒मुप॑स्तरण॒मुप॑स्तृण उप-
स्तर॑णं मे प्र॒जायै॑ प॒शूनां॑ भूयादुपस्त॒रणं॑-
महं प्र॒जायै॑ प॒शूनां॒ भूया॑सम् , इति ।
तस्मै पूर्वोक्तभूतादिवदनसिद्धयर्थमहमिदं प्रवर्ग्याख्यं कर्मोपस्तरणं मदाधारभूतमु-
पस्तृणे संपादयामि । मे मदीयानां प्रजानां पशूनां चोपस्तरणमाधारभूतं वस्तु भूयात् ।
अन्याधारासंभवेऽप्यहमेव प्रजानां पशूनां चोपस्तरणमाधारो भूयासम् ।
यथोक्तकर्मसिद्धयर्थं विघ्नरूपान्मृत्योः परिपालनं षष्ठभागेन प्रार्थ्यते—