सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 221, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 221

५१८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०४अनु०२]
अथाष्टमभागेन स्वाभीष्टसिद्धिहेतुं परमात्मानं प्रणवेनानुस्मृत्य विघ्नत्रयपरिहारार्थं
त्रिः शान्तिं पठति--
ॐ शान्तिः शान्तिः शान्तिः ॥

  • इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके चतुर्थप्रपाठके
    प्रथमोऽनुवाकः ॥ १ ॥
    आध्यात्मिकानां विघ्नानां ज्वरादिरूपाणां शान्तिरस्तु । आधिभौतिकानां रोगोपद्र-
    वादीनां शान्तिरस्तु । आधिदैविकानां यक्षराक्षसोपद्रवादानां शान्तिरस्तु ॥
    इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
    यारण्यकभाष्ये चतुर्थप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥
    अथ चतुर्थे द्वितीयोऽनुवाकः ।
    प्रथमानुवाके शान्त्यर्थं मन्त्रमुक्त्वा द्वितीयानुवाके महावीरनिर्माणार्था मन्त्रा उच्यन्ते।
    कल्पः-“प्रवर्ग्यं¹ संभरिष्यन्नमावास्यायां पौर्णमास्यामापूर्यमाणपक्षस्य वा पुण्ये नक्षत्रे
    तूष्णीं काण्टकीं समिधमाधाय युञ्जते मन इति चतुर्गृहीतं जुहोत्यथ यदि दीक्षितः
    काण्टकीमेवैतया समिधमादध्याद्यजुरेव वदेदित्येके" इति । पाठस्तु--
    यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धिय॑ः । विप्रा॒ विप्र॑स्य
    बृ॒ह॒तो वि॑प॒श्चित॑ः । वि होत्रा॑ दधे वयुना॒विदेक॑
    इत् । म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः, इति ।
    विप्रस्य ब्राह्मणस्य यजमानस्य संबन्धिनो विप्रा ऋत्विजो मनो युञ्जते, प्रथमं
    स्वकीयं मनो विषयेभ्यो निवर्त्य समाहितं कुर्वन्ति । उतापि च धियः प्रवर्ग्यविष-
    याणि ज्ञानानि युञ्जते संपादयन्ति । कीदृशस्य विप्रस्य-बृहतः प्रभूताग्निचयनोद्यो-
    गेन प्रवृद्धप्रवर्ग्ययोगेनाभिवृद्धस्य । विपश्चितो विदुषः प्रयोगाभिज्ञस्य । कीदृशा
    विप्राः । होत्रा होमशीलाः, कर्मण्यालस्यरहिता इत्यर्थः । एक इदेक एव सविता
    विदधे सर्वमिदं निर्मितवान् । कीदृशः- वयुनाविद्, ऋत्विग्यजमानाभिप्रायज्ञः³ ।
    कथमेक एव सर्वमिदं कृतवानिति न विस्मेतव्यम् । त ( य ) तः सवितुर्देवस्य परि-
    ष्टुतिर्मही परितः सर्वेषु⁴ देवेषु श्रूयमाणा स्तुतिर्महती ।
  • व. पुस्तके ऽत्रानुवाकसमाप्तिर्नास्ति । किंचाग्रे द्वितीयानुवाकसमाप्तिस्थले प्रथमानुवाक-
    माविर्भवते । एवं तृतीयानुवाकसमाप्तिस्थले द्वितीयानुवाकसमाप्तिः कृताऽस्ति
    १ ग. ऽन प्रव° । २ ग. 'नास्ति' । ३ क. ख 'भिज्ञः । ४ ग. देवेषु ।